________________
९६२
सूर्यप्रज्ञप्तिसूत्रे ___ छाया-केन वर्द्धते चन्द्रः ? परिहानिः केन भवति चन्द्रस्य !, कृष्णो वा ज्योत्स्नो वा केनानुभावेन चन्द्रस्य ? ॥२४॥ कृष्णं राहु विमानं नित्यं चन्द्रेण भवति अविरहितं ॥ चतुरङ्गुलमसंप्राप्तमधश्चन्द्रस्य तच्चरति ॥२५॥ द्वापष्टि द्वषष्टिर्दिवस्तु शुक्लपक्षस्य । यथा परिवर्द्धते चन्द्रः क्षपयति तथैव कृष्णेन ॥२६॥ पञ्चदशभिर्भागेन यश्चन्द्रं पञ्चदशमेव तं वृणोति । पञ्चदशत मेन भागेन यः पुनरपि तं तथैवापक्रमति ॥२७॥ एवं वर्द्धते च चन्द्रः परिहानिरेवभवति चन्द्रस्य । कृष्णो वा ज्योत्स्नो वा एवमनुभावेन चन्द्रस्य ॥२८॥ अन्तमनुष्यक्षेत्रे भवन्ति चारोपगास्तु उपपन्नाः । पञ्चविधा ज्योतिषिकाश्चन्द्राः सूर्याः ग्रहगणाश्च ।।२९॥ तस्मात् परं यानि शेषानि चन्द्रादित्यग्रहतारानक्षत्राणि । नास्ति गतिर्नापि चारोऽवस्थितास्ते ज्ञातव्याः ॥३०॥ एवं जम्बुद्वीपे द्विगुणाः लवणे चतुगुणाः भवन्ति । लावणिका ये त्रिगुणिताः शशि सूर्या धातकीखण्डे ॥३१॥ द्वौ चन्द्रौ इह द्वीपे चत्वारश्च सागरे लवणतोये । धातकीखण्डे द्वीपे द्वादश चन्द्राश्च सूर्याश्च ॥३२॥ धातकिखण्डप्रभृतिषु उद्दिष्टास्त्रि गुणिताः भवन्ति चन्द्राः। आदित्यचन्द्रसहिता अनन्तरानन्तरक्षेत्रे ॥३३॥ ऋक्षग्रहतारकं द्वीपसमुद्रे यदीच्छसि ज्ञातुं । तत् शशिभिस्तद् गुणितं ऋक्षग्रहतारकं तु ॥३४॥ बहिस्तातु मनुष्य नगस्य चन्द्रसूर्याणामवस्थिता ज्योत्स्ना चन्द्र अभिजित् युक्ता सूर्याः पुनर्भवन्ति पुष्ये हिं ॥३५|| चन्द्रात् सूर्यस्य च सूर्यात् चन्द्रस्य अन्तरं भवति । पश्चाशत् सहस्राणि तु योजनानां अन्यूनानि ॥३६॥ सूर्यस्य च सूर्यस्य च शशिनश्च शशिनश्च अन्तरं भवति । बाह्यं तु मनुष्यनगस्य योजनानां शतसहस्रं ॥३७॥ सूर्यान्तरिताश्चन्द्रा चन्द्रान्तरिताश्च दिनकरादिष्टाः । चित्रान्तरलेश्याकाः सुभ्रलेश्यामन्दलेश्या च ॥३८॥ अष्टाशीतिश्च ग्रहाः अष्टाविंशतिश्च भवन्ति नक्षत्राणि । एकशशिपरिवार इतस्ताराणां प्रवक्ष्यामि ॥३९॥ पट्क्षष्टिः सहस्राणि नव चैत्र शतानि पश्चसहितानि । एकशशि परिवारस्तारागण कोटिकोटीनां ॥४०॥ अन्तमुनुष्यक्षेत्रे ये चन्द्रसूर्याः ग्रहगणतारास्तेषां देवा किं ऊोपपन्नकाः कल्पोपत्रकाः विमानोपपत्रकाः चारोपपन्नकाः चारस्थितिकाः गतिरतिकाः गतिसमापनका ? । तावत् ते खलु देवा न ऊध्वोपपन्नका न कल्पोपपनका विमानोपपत्रकाः चारोपपन्नका न चारस्थितिकाः गतिरतिकाः गतिसमापनकाः, ऊर्ध्वमुखकलुम्बिकापुष्पसंस्थानसंस्थितै योजनसहरॆस्तापक्षेत्रैः सहस्रैर्बादै विक्रियाभिः परिषद्भिः महताहतनृत्यगीतवादित्रतन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवेण महता उत्कृष्टसिंहनादकलरवेण स्वच्छं पर्वतराज पदातिनावर्त्तमण्डलचारं मेरुं अनुपर्यटन्ति, । तावत् तेषां खलु देवानां योऽधः इन्दुश्चरति स कथमिदानी प्रकरोति ? । तावत् चत्वारः पञ्च सामानिकदेवास्तं स्थानं उपसंपद्य खलु विहरन्ति यावत् अन्यः इत्थं इन्दु उपपनो भवति, तावत् इन्दुस्थाने खलु कियता कालेन विरहितं प्रज्ञप्तम् । ताव जघन्येन एकः समयः उत्कर्षेण षण्मासाः । तावत् बाह्याः खलु मनुष्यक्षेत्रस्य ये चन्द्रसूर्यग्रहाः यावत् तारारूपास्ते खलु देवाः किं ऊर्बोपपन्नकाः कल्पोपनकाः, विमानोपपन्नकाः चारस्थितिकाः गतिरतिताः गतिसमापनकाः ? । तावत् ते खलु देवाः न ऊोपपन्नकाः न
श्री सुर्यप्रति सूत्र : २