________________
सूर्यमप्तिप्रकाशिका टाका सू० २१ द्वितीयप्राभृते प्रथम प्राभृतप्राभृतम् २५३ मिल्लंसि उत्तरपञ्चस्थिमिल्लंसि य चउब्भागमंडलंसि इमीसे रयणप्प. भाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ अटुजोयणसयाई उई उप्पइत्ता, इत्थणं पाओ दुवे सूरिया आगासंसि उत्ति;ति । सू० २१॥
॥बिईयस्स पढमं ॥१॥ छाया-तावत् कथं ते तिर्यग्गतिराख्याता इति वदेत् । तत्र खलु इमा अष्टौ प्रतिपत्तयः प्रज्ञप्ताः । तत्र एके एवमाहुः-तावत् पौरस्त्याल्लोकान्तात् प्रातमरीचिराकाशे उत्तिष्ठति, स खल्ल इमं लोकं तिर्यक् करोति, तिर्यक् कृत्वा पश्चात्यलोकान्ते सायं रात्रौ आकाशे विध्वंसिष्यते । एके एवमाहुः १ । एके पुनरेवमाहुः २, तावत् पौरस्त्याल्लोकान्तात् प्रातः सूर्यः आकाशे उत्तिष्ठति, स खलु इमं तिर्यग्लोकं तिर्यक् करोति, तिर्यक् कृत्वा पाश्चात्ये लोके सूर्यः आकाशे विध्वंसते, एके एवमाहुः २। एके पुनरेवमाहुः ३ तावत् पौरस्त्याल्लोकान्तात् प्रातः सूर्य आकाशे उत्तिष्ठति, स इमं तिर्यग्लोकं तिर्यक् करोति तिर्यक् कृत्वा पाश्चात्ये लोकान्ते सायम् अधः प्रत्यागच्छति, अध: प्रत्यागत्य पुनरपि अपरभू पौरस्त्याल्लोकान्तात् प्रातः सूर्य आकाशे उत्तिष्ठति, एके एवमाहुः ३। एके पुनरेवमाहुः ४-तावत् पौरस्त्याल्लोकान्तात प्रातः सूर्यः पृथिवीकाये उत्तिष्ठति, स खलु इमं तियग्रलोकं तिर्यक् करोति, तियेक कृत्वा पाश्चात्ये लोकान्ते सायं सूर्यः पृथिवीकाये विध्वंसते, एके एवमाहुः ४ । एके पुनरेवमाहुः ५-पौरस्त्याल्लोकान्तात् प्रातः सूर्यः पृथिवीकाये उत्तिष्ठति, स खलु इमं तिर्यग्लोकं तिर्यक् करोति, तिर्यक् कृत्वा पाश्चात्ये लोकान्ते सायं सूर्यः पृथिवीकाये अनुप्रविशति, अनुप्रविश्य अधः प्रत्यागच्छति २ पुनरपि अपरभुवः पौरस्त्याल्लोकान्तात् प्रातः सूर्य: पृथिवीकाये उत्तिष्ठति, एके एवमाहुः ५ । एके पुनरेवमाहुः ६-तावत् पौरस्त्याल्लोकान्तात् प्रातः सूर्यः अप्काये उत्तिष्ठति, स खलु इमं तिर्यग्लोकं तिर्यक् करोति, तिर्यक् कृत्वा पाश्चात्ये लोकान्ते सायं सूर्यः अप्काये विध्वंसते, एके एवमाहुः ६। एके पुनरेवमाहुः ७-तावत् पौरस्त्याल्लोकान्तात् प्रातः सूर्यः अप्काये उत्तिष्ठति, स खलु इमं तिर्यग्लोकं तिर्यकरोति, तिर्यक् कत्वा पाश्चात्ये लोकान्ते सायं सूर्यः अप्काये प्रविशति, प्रविश्य अधः प्रत्यागच्छति, अधः प्रत्यागत्य पुनरपि अपरभुवः पौरस्त्याल्लोकान्तात् प्रातः सूर्यः अकाये उत्तिष्ठति, एके एवमाहुः ७। एके पुनरेवमाहुः ८-तावत् पौरस्त्याल्लोकान्तात् बहूनि योजनानि बहूनि योजनशतानि बहुनि योजनसहस्राणि ऊर्ध्व दरम् उत्पत्य अत्र खलु प्रातः सूर्यः आकाशे उत्तिष्ठति, स खलु इमं दक्षिणार्द्ध लोकं तिर्यक् करोति तिर्यक् कृत्वा उत्तरार्द्ध लोकं तमेव रात्री स खलु इमम् उत्तरार्द्ध लोकं तिर्यक् करोति, तिर्यक् कृत्वा दक्षिणाई लोकं तमेव रात्रौ, स खलु इमौ दक्षिणोत्तरार्द्धलोकौ तिर्यक् करोति, तिर्यक्कृत्वा पौरस्त्याल्लोकान्ताद् बहूनि योजनानि बहूनि योजनशतानि बहूनि योजनसहस्राणि ऊर्ध्व दूरम् उत्पत्य अत्र खलु प्रातः सूर्यः आकाशे उत्तिष्ठति, एके एवमाहुः ८ । वयं पुनरेवं वदामः-तावत् जम्बूद्वीपस्य प्राची.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧