SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू. ११४ चन्द्र विमानवाहकदेव संख्यादिनि० ९६७ विचित्रदण्डनिर्मलवज्रमयतीक्ष्णलङ्कुश कुम्भयुगलान्तरोदितानां तपनीयसुबद्धकक्षदर्पितबलधुराणां जांबूनदविमलघनमण्डलवज्रमयला लाललिततालनानामणिरत्नघण्टा पार्श्वगरजतमयरज्जुबद्धावलंबितघण्टा युगलमधुरस्वरमनोहराणाम् आलीप्रमाणयुक्तवर्तित सुजात लक्षणप्रशस्ततपनीय बालगात्रप रिपुञ्छनानाम् उपचितपरिपूर्ण कूर्मचलनलघुविक्रमाणाम् अङ्कमयनखानां तपनीयतालुकानां तपनीयजिह्वानां तपनीयोक्त्रकसुयोजितानाम् कामगमानां प्रीतिगमानां मनोगमानां मनोरमाणां मनोहराणाम् अमितगतीनाम् अमितबलवीर्य पुरुषकारपराक्रमाणां महतागंभीर गुलगुलायितरवेण मधुरेण मनोहरेण पूरयन्तः अम्बरं दिशश्वशोभयन्तः चतस्रो देवसाहस्त्रयः गजरूपधारिणां देवानां दाक्षिणात्यं वाहं परिवहन्ति । चन्द्रविमानस्य खलु पश्चिमेन श्वेतानां सुभगानां सुप्रभाणां चंक्रमितललितपुलितचलचपलककुदशालिनां सन्नतपार्श्वानां संगतपार्श्वानां सुजातपार्श्वानां मितमात्र पीनरतिद पार्श्वानां झपविहगसुजातकुक्षीणां प्रशस्तस्निग्धमधुगुलितभासमानपिङ्गलाक्षाणां विशालपी वरोरुपरिपूर्णविपुलस्कन्धानां वृत्तपरिपूर्णविपुलकपोलकलितानां घननिचितसुबद्धलक्षणोन्नतईपदानतवृषभौष्ठानां चङ्क्रमितललितपुलितचक्रवालचपलगर्वितगतीनां पीवरोरुवर्तितसुसंस्थितकटीनाम् अवलम्बप्रलम्बलक्षणप्रमाणयुक्तप्रशस्तरमणीयवालगण्डानां समखुखालधारिणाम् समलिखिततीक्ष्णाग्रशंगाणां तनुसूक्ष्मसुजात स्निग्धलोमच्छविधराणाम् उपचितमांसलविशाल परिपूर्णस्कन्धप्रदेशसुन्दराणां वैडूर्यभासमानकटाक्षसु निरीक्षणानां युक्तप्रमाणप्रधानलक्षणप्रशस्तरमणीयगग्गर गलशोभितानां घग्घरगसुबद्धकण्ठपरिमण्डितानां नानामणिकनकरघण्टिका वैकक्षिक सुकृतरचितमालिकानां वरघण्टा गलगलितशोभमानसश्रीकाणां पद्मोत्पलसकलसुरभिमालाविभूषितानां वज्रखुराणां विविधविखुराणां स्फटिकमयदन्तानां तपनीयजिह्नानां तपनीयजिहानां तपनीयतालुकानां तपनीययोक्त्रकसुयोजितानां कामगमानां प्रीतिगमानां मनोगमानां मनोरमाणां मनोहराणाम् अमितगतीनाम् अमितबलवीर्य पुरुषकारपराक्रमाणाम् महता गंभीरगर्जितरवेण मधुरेण मनोहरेण च पूरयन्तः अम्बरं दिशाश्च शोभयन्तः चतस्रो देवसाहस्त्र्यः वृषभरूपधारिणां देवानां पाश्चात्यं वाहं परिवहन्ति । चन्द्रविमानस्य खलूत्तरेण श्वेतानां सुभगानां सुप्रभाणाम् जात्यानां तरोमल्लिहायनानां हरिमेलकमृदुलमल्लिकाक्षाणां धननिचितसुबद्धलक्षणोन्नतचङ्क्रमित ( चंचुरित) ललितपुलितचलचपलचंचलगतीनां लंघनवल्गनधावनधोरणत्रिपदीजयिशिक्षितगतीनां सन्नतपार्श्वानां ललल्लामगलायवर भूषणानां संनतपार्श्वानां संगतपार्श्वानां सुजातपार्श्वनां मितमात्र पीनर चितपार्श्वानां झपविहगसुजातकुक्षीणां पीनपीवरवतित જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy