________________
प्रमेयद्योतिका टीका प्र. ३. उ. ३ सू. ५७ विजयद्वारपार्श्व स्थितनैषेधिक्याः नि० ८५ प्रज्ञप्तः, तद्यथा - तपनीयमयाः प्रकण्ठकाः वैडूर्यमयाः स्तम्भकाः वज्रमयाः वराङ्गाः नानामणिमया वलक्षाः अङ्कमपानि मण्डलानि अनवधर्षित निर्मलया छायय । सर्वत एव समनुबद्धा चन्द्रमण्डलप्रतिनिकाशा ः महता महता अर्द्धकाय समानाः प्रज्ञप्ताः श्रमणायुष्मन् । तेषां खलु तोरणानां पुरतो द्वे द्वे वज्रमये स्थाले प्रज्ञप्ते । तानि खलु स्थालानि अच्छत्रिछटित शालि तन्दूलनखसंदष्ट बहुसमपरिपूर्णानीव तिष्ठन्ति सर्वजाम्बूनदमयानि अच्छानि यावत्प्रतिरूपाणि, महता महता रथचक्रसमानानि श्रमणायुष्मन् ! । तेषां खलु तोरणानां पुरतो द्वे द्वे पात्र्य प्रज्ञप्ते | याः खलु पात्र्यः अच्छोदकपरिपूर्णाः नानाविधपञ्चवर्णैः हरितफलैर्बहुप्रतिपूर्णा इव तिष्ठन्ति सर्वरत्नमय्यो यावत्प्रतिरूपाः महता महता गोकलिञ्जकचक्रसमानाः प्रज्ञप्ताः श्रमणायुष्मन् ! । तेषां खलु तारणानां पुरतो द्वौ द्वौ सुप्रतिष्ठको प्रज्ञप्तौ, ते खलु सुप्रतिष्ठकाः नानाविध पञ्चवर्णप्रसाधनक भाण्डविरचिताः सर्वोषधिप्रतिपूर्णाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः । तेषां खलु तोरणानां पुरतो द्वे द्वे मनोगुलिके प्रज्ञप्ते, तासु खलु मनोगुलिकासु बहूनि सुवर्णरूप्यमयानि फलकानि प्रज्ञप्तानि तेषु खलु सुवर्णरूप्यमयेषु फलकेषु बहवो वज्रमया नागदन्ता मुक्ताजालान्तरोत्सृता हेम यावत् गजदन्तकसमानाः प्रज्ञप्ताः श्रमणायुष्मन् ! । तेषु खलु वज्रमयेषु नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि तेषु खलु रजतमयेषु सिक्ककेषु बहवो वातकारकाः प्रज्ञप्ताः । ते खलु वातकारकाः कृष्णसूत्रसिक्कगवस्थिताः यावच्छुक्लसूत्रसिकगवस्थिताः सर्व वैडूर्यमया: अच्छा यावत्प्रतिरूपाः तेषां खलु तोरणानां पुरतो
द्वौ चित्र रत्नकरण्डकौ प्रज्ञप्तौ स यथानामकः राज्ञश्चातुरन्तचक्रवर्तिनः चित्रो रत्नकरण्डको वैडूर्यमणिस्फटिक पटलमयाच्छादनः स्वकीयया प्रभया तान् प्रदेशान् सर्वतः समन्तात् भासयति उद्योतयति तापयति प्रभासयति, एवमेव ते चित्ररत्नकरण्डकाः प्रज्ञप्ताः वैये पटलमयाच्छादनाः स्वया प्रभया तान् प्रदेशान् सर्वतः समन्तात् अबभासयन्ति । तेषां खलु तोरणाना पुरतो द्वौ द्वौ हथकण्ठको यावत् ऋषभकण्ठको प्रज्ञप्तौ, सर्वरत्नमयौ अच्छौ यावत् प्रतिरूपौ । तेषु खलु हयकण्ठकेषु यावत् वृषभकण्ठकषु द्वे द्वे पुष्पचङ्गय्य, एवं माल्यगन्धचूर्णवस्त्राभरणचङ्गेर्घ्यः सिद्धार्थकचङ्गेयः लोमहस्तकचङ्गेय्र्यः सर्वरत्नमय्य : अच्छा यावत् प्रतिरूपाः । तेषां खलु तोरणानां पुरतो द्वे द्वे पुष्पपटले यावल्लोमहस्त पटलानि सर्वरत्नमयानि यावत् प्रतिरूपाणि । तेषां खलु तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञते । तेषां खलु सिंहासनाना मयमेतावद्रूपो वर्णावासः प्रज्ञप्त स्तथैव यावत् प्रासादीयाः ४ । तेषां खलु तोरणानां पुरतो द्वे द्व रूप्याच्छादने छत्रे प्रज्ञप्ते, तानि च छत्राणि वैडूर्यदीप्यमानविमलदण्डानि जाम्बूनदकर्णिकानि वज्रसन्धीनि मुक्ता
જીવાભિગમસૂત્ર