________________
९०६
जीवाभिगमसूत्रे माविलं रजोविरलम् लिन्दम् लवणम् कटुकम् अपेयम् बहूनां द्विपदचतुष्पदमृगपशुपक्षिसरीसृपाणां नाऽन्यत्र तज्जोनिकानां सत्त्वानाम् । कालोदस्य खलु भदन्त ! समुद्रस्योदकं कीदृशमास्वादेन प्रज्ञप्तम् ? गौतम ! आसलं पेशलं मांसलं कालं माषराशिवर्णाभम् प्रकृत्योदकरसेन प्रज्ञप्तम् । पुष्करोदकस्य खलु भदन्त ! समुद्रस्योदकं कीदृशं प्रज्ञप्तम् ? गौतम ! अच्छं जात्यं तनुकं स्फटिकवर्णाभं प्रकृत्योदकरसेन प्रज्ञप्तम् । वरुणोदस्य खलु भदन्त ! गौतम ! स यथा नामकः पत्रासव इति वा चोयासव इति वा खजूरसार इति वा, सुपक्व क्षोदरस इति वा मेरक इति वा कापिषायण इति वा चन्द्रप्रभेति वा मनःशिलेति वा-वरसीधुरिति-प्रवरवारुणी वा-अष्टपिष्टपरिनिष्ठित इति वा जम्बूफलकालिकाम् वरप्रसन्नाम् । उत्कृष्टमदप्राप्ता-ईषदोष्ठावलंबिनी-ईषत्ताम्राक्षिकरिणी-ईषदुत्सेककरणी-आसला मांसला पेशला वर्णेनोपपेता यावत् नायमर्थः समर्थः, वारुणोदकम् इत इष्टतरकमेव यावदास्वादेन प्रज्ञप्तम् ? गौतम ! स यथा-नामको राज्ञश्चतुरन्तचक्रवर्तिनश्चातुरष्कं गोक्षीरं पर्याप्तमन्दाग्नि सुक्वयितम् आद्युत्तर खण्ड मत्स्यंडिकोपपेतं वर्णेनोपेतं यावत्स्पर्शेणोपपेतम् भवेदेतद्रूपं स्यात् नायमर्थः समर्थः गौतम ! क्षीरोदकस्य० इत इष्ट. यावदास्वादेन प्रज्ञप्तम् । घृतोदस्य खलु स यथा नामकः शारदिकस्य गोघृतवरस्य मण्डः शल्लकी कर्णिकार पुष्पवर्णाभः सुक्वथितोदाररसविष्यन्दितो वर्णेनोपपेतो यावत् स्पर्शणोपपेतः, भवेदेतद्रूपः स्यात् नायमर्थः समर्थः इत इष्टतर० । क्षोदोदकस्य स यथा नामक: उच्छून जात्य पुण्ड्रकाणां हरिताल पिण्डराणां भेरुण्ड समुत्पादितानां वा कालपर्वाणां त्रिभागोत्पाटितवाट कानां वलवत् नरयन्त्र परिगालित मात्राणां यश्च रसो भवेत वस्त्रपरिपूतः चातुर्जातक सुवासितः अधिकपथ्यो लघुको वर्णेनोपपेतो यावद्भवेत् एतद्रूपः स्यात् नायमर्थः समर्थः इतइष्टतरक० एवं शेषाणामपि समुद्राणां भेदो यावत् स्वयंभूरमणस्य, नवरम् अच्छं जात्यं पत्थ्यं यथा पुष्करोदस्य । कति खलु भदन्त ! समुद्राः प्रत्येकरसाः प्रज्ञप्ताः ? गौतम ! चत्वारः समुद्राःप्रत्येकरसाः प्रज्ञप्ताः । तद्यथा-लवणो वरुणोदः क्षीरोदो घृतोदः। कति खलु भदन्त ! समुद्राः प्रकृत्योदकर सेन प्रज्ञप्ताः । गौतम ! त्रयः समुद्राः प्रकृत्या उदकरसेन प्रज्ञप्ताः तद्यथा-कालोदः १ पुष्करोदः २ स्वयम्भूरमणः। अवशेषा समुद्रा उत्सन्न (बाहल्येन) क्षोदरसाः प्रज्ञप्ताः श्रमणायुष्मन् ? ॥१०६॥
टीका-'केवइया णं भंते ! जंबूद्दीवा दीवा नामधेज्जेहिं पन्नत्ता' जंबूद्वीपा द्वीपाः कियन्तोनामभिः प्रसिद्धाः ? 'गोयमा ! असंखेज्जा जंबुद्दीवा दीवानामधे
'केवइयाणं भंते ! जंबूदीवा दीवा नामधेज्जेहिं पन्नत्ता'-इत्यादि । टीकार्थ-अब गौतम स्वामीप्रभु से ऐसा पूछते हैं-हे भदन्त !
જીવાભિગમસૂત્ર