________________
८७२
जीवाभिगमसूत्रे
1
I
म्भेण संख्येयानि योजनशतसहस्राणि परिक्षेपेण प्रज्ञप्तः । पद्मवरवनषण्डद्वाराराणि द्वारान्तराणि च तथैव संख्येयानि योजनशतसहस्राणि द्वारान्तरं यावदर्थः, वाप्यः क्षोदोदकपरिपूर्णाः उत्पातपर्वतकाः सर्ववज्रमया अच्छाः, अशोक - वीतशोकौ चात्र द्वौ देवौ महर्द्धिक यावत्परिवसतः, तत्तेनार्थेन यावत् संख्येयं सर्वम् | अरुणं खलु द्वीपम् अरुणोदो नाम समुद्रः तस्यापि तथैव परिक्षेपोऽर्थः क्षोदोदके नवरं सुभद्र - सुमनभद्र अत्र द्वौ देवौ महर्द्धिकौ शेष तथैव । अरुणोदकं समुद्रं अरुणवरो नाम द्वीपो वृत्तो वलयाकार संस्थान संख्येयकं सर्व यावद् अर्थः क्षोदोदक प्रतिपूर्णाः उपपातपर्वताः सर्ववज्रमयाः अच्छाः, अरुणवरभद्राऽरुणवरमहाभद्रौ अत्र aa महर्द्धिक एवम् - अरुणवरोदेऽपि समुद्रे यावद्देवौ अरुणवराऽरुणमहावरौ च अत्र द्वौ देवौ शेष तथैव । अरुणवरोदं खलु समुद्र - अरुणवरावभासो नाम द्वीपो वृत्तो यावद् देवौ अरुणवरावभासभद्राऽरुणवराभासमहाभद्रौ द्वौ देवौ महर्द्धिकौ । एवम् - अरुणवरावभासे समुद्रे नवरं देवौ अरुणवरावभास अरुणवरावभासमहावरौ अत्र द्वौ देवौ महर्द्धिकौ । कुण्डले द्वीपे कुण्डलभद्र कुण्डलमहाभद्रौ द्वौ देवौ महर्द्धिकौ । कुण्डलोदे समुद्रे चक्षुः शुभचक्षुकान्तौ अत्र द्वौ देवौ महर्द्धिकौ । कुण्डलवरे द्वीपे कुण्डलवरभद्र कुण्डलवरमहाभद्रौ अत्र द्वौ देवौ महर्द्धिकौ । कुण्डलवरीदे समुद्रे कुण्डलवर कुण्डलवर महावरौ अत्र द्वौ देवौ महर्द्धिकौ । कुण्डलवरावभासे द्वीपे कुण्डलवरावभासभद्र कुण्डलवरावभासमहाभद्रौ अत्र द्वौ देवौ महर्द्धिकौ । कुण्डलवरावभासोदे समुद्रे कुण्डलवरावभासवर कुण्डलवरावभासमहावरौ अत्र द्वौ देवौ महर्द्धिकौ यावत्पल्योपमस्थितिको परिवसतः । कुण्डलवरावभासं खलु समुद्रं रुचको नाम द्वीपो वृत्तो वलयाकार ० यवत्तिष्ठति किं समचक्रवाल ० विषमचक्रवाल० ? गौतम ! समचक्रवाल० नो विषमचक्रवासंस्थितः कियता चक्रवालविष्कम्भेण प्रज्ञप्तः ० सर्वार्थ मनोरमौ अत्र द्वौ देवौ शेषं तथैव । रुचकोदे नाम समुद्रे यथा क्षोदोदे नाम समुद्रे संख्येयानि योजनशतसहस्राणि चक्रवालविष्कम्भेण संख्येयानि योजनशतसहस्राणि परिक्षेपेण द्वाराणि द्वारान्तरमपि संख्येयानि ज्योतिष्कमपि सर्वे संख्येयम् भणितव्यम्, अर्थोऽपि यथैव क्षोदोदकस्य- नवरं - सुमनः सौमनसौ अत्र द्वौ देवौ महर्द्धिकौ तथैव रुचकाद् आढ्यत्वम् असंख्येयं विष्कम्भपरिक्षेपौ द्वाराणि द्वारान्तरं च ज्योतिष्कं च सर्वमसंख्येयं भणितव्यम् । रुचकोदकं खलु समुद्रं रुचकवरः खलु द्वीपो वृत्तो रुचकवरभद्र रुचकवरमहाभद्रौ अत्र द्वौ देवौ ० रुचकवरोदे रुचकवर - रुचकवरमहावरौ अत्र द्वौ देवौ महर्द्धिकौ । रुचकवरावभासे द्वीपे रुचकवराभासभद्र रुचकवरावभासमहाभद्रौ अत्र द्वौ देवौ महर्द्धिकौ । रुचकवरावभासे समुद्रे रुचकवरावभासवररुचकवरावभासमहावरौ
જીવાભિગમસૂત્ર