SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ ८२२ ___ जीवाभिगमसूत्रे छाया-क्षीरोदं खलु समुद्रं घृतवरो नाम द्वीषो वृत्तो वलयाकारसंस्थानसंस्थितः यावत्परितिष्ठति, समचक्रवाल० नो विषमचक्रवाल० संख्येयविष्कम्भपरि० प्रदेशा यावत् अर्थः । गौतम ! घृतवरे खलु द्वीपे तत्र तत्र बहवः क्षुद्राः क्षुल्लिका वाप्यो यावद् घृतोदक परिपूर्णाः उत्पातपर्वताः यावत् खड हड ० सर्वकांचनमया अच्छा यावत्प्रतिरूपाः कनक-कनकप्रभौ अत्र द्वौ देवौ महर्द्धिको चन्द्राः संख्येयाः। घृतवरं खलु द्वीपं घृतोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्तिष्ठति । समचक्र० तथैव द्वारप्रदेशा जीवाश्चाऽर्थः, गौतम ! घृतोदस्य खलु समुद्रस्योदकं स यथा-प्रफुल्लशल्लकीविमुक्तककर्णिकार सर्षपविबुद्धकोरण्टदामपिण्डिततरस्य स्निग्धगुणतेजोदीप्तनिरुपहत विशिष्ट सुन्दरतरस्य सुजातदधिमथित तदिवसगृहीतनवनीतपटुसंगृहीतोत्क्वथित उद्दामसद्योविस्यन्दितस्याधिक पीवरसुरभिगन्धमनोहरमधुरपरिणामदर्शनीयस्य पथ्यनिर्मलसुखोपभोगस्य शरत्काले भवेत् । गोघृतवरस्य मण्डः भवेदेतद्पम् नाऽयमर्थः समर्थः । गौतम ! घृतोदस्य खलु समुद्रस्येतः इष्टतरं यावत् आस्वादेन प्रज्ञप्तम् कान्तमुकान्तौ अत्र द्वौ देवौ महद्धिको यावत् परिवसतः शेषं तदेव तारागणकोटिकोटयः । घृतोदं खलु समुद्रं क्षोदवरो नाम द्वीपो वृत्तो वलयाकारो यावत्तिष्ठति तथैव यावदर्थः । क्षोदवरे खलु द्वीपे तत्र २ देशे २ तत्र तत्र क्षुद्रा वाप्यो यावत् क्षोदोदक प्रतिपूर्णा उपपातपर्वताः सर्ववैडूर्यमया यावत् प्रतिरूपाः, सुप्रभ-महाप्रभौ द्वौ देवौ महर्द्धिको यावत् परिवसतः तत्तेनार्थेन० सर्व ज्योतिष्कं तदेव यावत्ताराः । क्षोदवरं खलु द्वीपं क्षोदोदः नाम समुद्रो वृत्तो वलयाकार यावत् संख्येयानि योजनशतपरिक्षेपेण यावदर्थः, गौतम ! क्षोदोदस्य खलु समुद्रस्योदकं स आसल-मांसल-प्रशस्त – विश्रान्त-स्थिग्ध सुकुमाल भूमिभागे सुच्छिन्न मुकाष्ठलष्टविशिष्ट निरुपहतबीजोप्तेष्टकाशकपत्रपत्रकनिपुणपरिकर्माऽनुपालितसुवृद्धिवृद्धानाम् सुजातानाम् लवणतणदोषवर्जितानाम् निर्यात् परिवर्द्धितानाम् निर्मातसुन्दराणाम् रसेन परिणतमृदुपीनपर्वभगुरसुजातमधुरपुष्पविरस्का उपद्रववर्जितानां शीतपरिस्पर्शितानाम् अभिनवभग्नानाम् आपालितानाम् त्रिभागनिर्वाटितवाटानाम् अपनीतमूलानाम् ग्रन्थिपरिशोधितानाम् कुशलनरकल्पितानाम् उद्वद्धानाम् पौण्डूिकाणाम् चपलजरयन्त्रपरिगलितमात्राणाम् क्षोदरसो भवेत वस्त्रपरिपूतः चातुर्जातक सुवासितः अधिकपथ्यलघुको वर्णोपपेतस्तथैव भवेदेतदूपं स्यात् नायमर्थः समर्थः क्षोदरसस्य खलु समुद्रस्योदकम् इतः इष्टतरं चैव यावदास्वादेन प्रज्ञप्तम्, पूर्णभद्र-मणिकभद्रौ च (पुण्य-पुण्यभद्रौ) अत्र द्वौ देवौ यावत् परिवसतः शेषं तथैव ज्योतिष्कं संख्येय चन्द्राः ॥१०२॥ જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy