________________
७६६
जीवाभिगमसूत्रे
बुद्धि बुडि अणवयि संठाणसंठिई आघविजइ तावं च अस्सि लोएति पच्चइ | सू० ९९ ॥
छाया - मानुषोत्तरः खलु भदन्त ! पर्वतः कियदूर्ध्वमुच्चैस्त्वेन कियदुद्वेषेन कियन्मूले विष्कम्भेण कियन्मध्ये विष्कम्भेण कियच्छिखरे विष्कम्भेण कियदन्तर्गिरिपरिरएण कियद्बहिर्गिरिपरिरएण कियन्मध्ये गिरि परिरएण, कियदुपरिगिरि परिरएण ? गौतम ! मानुषोत्तरः खलु पर्वतः सप्तदश एकविंशानि योजनशतानि ऊर्ध्वमुच्चैस्त्वेन चत्वारि त्रिंशानि योजनशतानि क्रोशं चोद्वेधेन मूले दशद्वाविंशानि योजनशतानि विष्कम्भेण, मध्ये सप्तत्रयोविंशानि योजन - शतानि विष्कम्भेण, उपरि चत्वारि चतुर्विंशानि योजनशतानि विष्कम्भेण, अन्तगिरि परिरएण एका योजनकोटि द्वचत्वारिंशद योजनशतसहस्राणि त्रिंशच्चसहस्राणि द्वे च एकोनपञ्चाशदधिके योजनशते किंचिद् विशेषाधिके परिक्षेपेण बाह्यगिरि परिरण एका योजनकोटि द्वचत्वारिंशत् शतसहस्राणि षट् त्रिंशत् सहस्राणि सप्तचतुर्दशोत्तराणि योजनशतानि परिक्षेपेण, मध्ये गिरि परिरएण एका योजनकोटि : द्वाचत्वारिंशत् शतसहस्राणि चतुस्त्रिंशत् सहस्राणि अष्टौ त्रयो विंशानि योजनशतानि परिक्षेपेण उपरिगिरि परिरएण एका योजनकोटि द्वाचत्वारिंशत् शतसहस्राणि द्वात्रिंशत् सहस्राणि नव च द्वात्रिंशानि योजनशतानि परिक्षेपेण, मूले विस्तीर्णो मध्ये संक्षिप्तः उपरि तनुकः अन्तः श्लक्ष्णो मध्ये उदग्रः वहिर्दर्शनीयः ईषत्सन्निषण्णः सिंहनिषादी अपार्धयवराशि संस्थानसंस्थितः सर्वजाम्बूनदमयः अच्छः श्लक्ष्णो यावत्प्रतिरूपः । उभयोः पार्श्वयो द्वाभ्यां पद्मवेदिकाभ्यां द्वाभ्यां च वनपण्डाभ्यां सर्वतः समन्तात् संपरिक्षिप्तः वर्णको द्वयोरपि । तत्केनार्थेन भदन्त ! एवमुच्यते मानुषोत्तरः पर्वतो २ ? गौतम ! मानुषोत्तरस्य खलु पर्वतस्याऽन्तर्मनुजाः उपरि सुवर्णाः बहिर्देवाः । अथोत्तरं च खलु गौतम ! मानुषोत्तरं पर्वतं मनुजाः न कदापि व्यतिव्रजितवन्तो वा, व्यतिव्रजन्ति वा व्यतिवजिष्यन्ति वा, नान्यत्र चारणात्- विद्याधरात्- देवकर्मणोवापि तत्तेनार्थेन गौतम । एवमुच्यते मानुषोत्तरः पर्वतः ० - २ । अथोत्तरं च खलु यावन्नित्येति । यावत्खलु मानुषोत्तरः पर्वतस्तावत् खल्वयं लोक इति प्रोच्यते यावत्खलु वर्षाणि वा वर्षधरा इति वा तावच्च खलु - अयं लोक इति प्रोच्यते यावच्च खलु गृहाणीति वा - गृहायतनानीति वा तावच्च खलु अयं लोक इति प्रोच्यते यावच्च खलु ग्रामा इति वा यावद्राजधानीति वा तावच्च खल्वयं लोक इति प्रोच्यते यावत्खलु अर्हन्तश्चक्रवर्तिनो बलदेवा वासुदेवाः प्रतिवासुदेवाश्चारणा विद्याधराः श्रमणाः श्रमण्यः श्रावकाः श्राविकाः मनुजाः प्रकृतिभद्राः विनीताः तावच्च खल्वयं लोक इति प्रोच्यते यावच्च खलु समय इति वा - आवलिकेति
જીવાભિગમસૂત્ર