SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ४८० जीवाभिगमसूत्रे कूडः प्रज्ञप्तः अष्टौ योजनानि ऊर्ध्व मुच्चैस्त्वेन मूले द्वादशयोजनानि विष्कम्भेण मध्येऽष्टौ योजनाम्यायामविष्कम्भाभ्याम् उपरि चत्वारि योजनान्यायामविष्कम्भेण मूले सातिरेकाणि सप्तत्रिंशद् योजनानि परिक्षेपेण मध्ये सातिरेकाणि पंचविंशतियजनानि परिक्षेपेण उपरि सातिरेकाणि द्वादशयोजनानि परिक्षेपेण मूले विस्तीर्णो मध्ये संक्षिप्तः उपरि तनुको गोपुच्छ संस्थानसंस्थितः सर्व जांबून दमयोऽच्छो यावत्प्रतिरूपः । स खलु एकया पद्मवरवेदिकया - एकेन वनपण्डेन सर्वतः समन्तात्संपरिक्षिप्तः द्वयोरपि वर्णकः । तस्य खलु कूटस्योपरि बहुसमरम यो भूमिभागः प्रज्ञप्तो यावदासते । तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेश भागे एकं सिद्धायतनं क्रोशप्रमाणं सर्वापि सिद्धायतनवक्तव्यता । जम्ब्वाः खलु सुदर्शनायाः पूर्वस्य भवनस्य दक्षिणेन दक्षिणपूर्वस्य प्रासादावतंसकस्योत्तरेण अत्र खलु एको महान् कूटः प्रज्ञप्तः तदेव प्रमाणं सिद्धायतनं च । जंब्बाः खलु सुदर्शनायाः दक्षिणात्यस्य भवनस्य पूर्वेण दक्षिण पूर्वस्य प्रासादावतंसकस्य पश्चिमेन अत्र खलु एको महान्कूटः प्रज्ञप्तः । दक्षिणस्य भवनस्य परतो दक्षिणपश्चिमस्य प्रासादावतंसकस्य पूर्वेण अत्र खलु एको महान कूटः जंबूतः पश्चिमस्य भवनस्य दक्षिणेन दक्षिणपश्चिमस्य प्रासादावतंसकस्योत्तरेण अत्र खलु एको महान कूटः प्रज्ञप्तः तदेव प्रमाणं सिद्धायतनं च । जंब्वाः पश्चिमभवनोत्तरेणोत्तर पश्चिमस्य प्रासादावतंसकस्य दक्षिणेनाऽत्र खलु एको महान् कूटः प्रज्ञप्तः तदेव प्रमाणं सिद्धायतनं च । जंब्बा उत्तरस्य भवनस्य पश्चिममेनोत्तरपश्चिमस्य प्रासादावतंसकस्य पूर्वेणाऽत्र खलु एको महान् कूटः प्रज्ञप्तः तदेव । जंब्वा उत्तर भवनस्य पूर्वेणोत्तरपूर्वस्य प्रासादावतंसकस्य पश्चिमेनाऽत्र खल एको महान् कूटः प्रज्ञप्तः तदेव प्रमाणं तथैव सिद्धायतनम् | जंबू खलु सुदर्शनाऽन्यै हभिस्तिल कैलवकै यवित्-राजवृक्षैः हिङ्गुवृक्षैः सर्वतः समन्तात् संपरिक्षिप्ता जंच्चाः खल सुदर्शनायाः उपरि बहूनि अष्टौ अष्टौ मङ्गलकानि प्रज्ञप्तानि तद्यथा - स्वस्तिक श्रीवत्स० कृष्ण चामरध्वजाः यावत् - छत्रातिच्छत्राणि । जंब्बाः खलु सुदर्शनायाः द्वादशनामधेयानि प्रज्ञप्तानि तद्यथा - सुदर्शना अमोधाच सुप्रबुद्धा यशोधरा । विदेह जंबू : सौमनस्या नियता- नित्य मण्डिता ॥१॥ सुभद्रा च विशाला - सुजाताइति याः सुदर्शनायाः जंब्वा: नामधेयानि द्वादश ||२|| तत्केनार्थेन भदन्त ! एवमुच्यते जंबू मुदर्शना - जंबू सुदर्शना ? गौतम ! जंब्बा सुदर्शनायां जंबू द्वीपाधि पतिः अनादृतो नामदेवो महर्द्धिको यावत् - पल्योपमस्थितिकः परिवसति स खलु तत्र चतुर्णां सामानिकसहस्राणां यावत् जंबूद्वीपस्य जंब्वाः सुदर्शनायाः अनादृतायाश्च राजधान्याः यावद् विहरन्ति । कुत्र खलु भदन्त ! अनादृतस्य यावत् समस्ता वक्तव्यता राजधान्याः महर्द्धिकः । अथोत्तरं च खलु गौतम ! जंबू 1 જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy