SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे स्कारपर्वतस्य पूर्वेण सीताया महानद्याः पूर्वे कूले अत्र खलु उत्तर कुरुषु कुरुषु जंबूपीठं नाम पीठं पञ्चयोजनशतानि आयामविष्कम्भेण एकं योजनसहस्रं पञ्चैकाशीतानि योजनशतानि किंचिद् विशेषाधिकानि परिक्षेपेण बहुमध्यदेशभागे द्वादशयोजनानि बाहल्येन तदनन्तरं च खलु मात्रया-२ प्रदेशं परिहीयमानं सर्वेषु चरमान्तेषु द्वौ क्रोशौ बाहल्येन प्रज्ञप्तं सर्वजाम्बूनदमयम् अच्छं यावत्प्रति रूपम्-तत्खलु एकया पद्मवरवेदिकया-एकेन च वनपण्डेन सर्वतः समंतात् संपरिक्षिप्तम् वर्णको द्वयोरपि । तस्य खलु जंबूपीठस्य चतुर्दिशि चत्वारि त्रिसोपानकप्रतिरूपाणि प्रज्ञप्तानि तदेव यावत्तोरणानि यावत् छत्रातिच्छत्राणि । तस्य खलु जंबूपीठस्योपरि बहुसमरमणीयो भूभिभागः प्रज्ञप्तः स यथानामकः आलिंगपुष्करमिति वा यावन्मणिः। तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र खलु एका महती मणिपीठिका प्रज्ञप्ता अष्टयोजनान्यामविष्कम्भाभ्याम् चत्वारि योजनानि बाहल्येन मणि मती-अच्छा श्लक्ष्णा यावत्प्रतिरूपा । तस्याः खलु मणिपीठिकायाः उपरि अत्र खलु एका महती जंबू सुदर्शना प्रज्ञप्ता अष्टयोजनानि ऊर्ध्वमुच्चैस्त्वेन अधयोजनमुद्वेधेन द्वे योजने स्कन्धः अष्टौ योजनानि विष्कम्भेण षड़योजनानि विडिमाः बहुमध्यदेशभागे अष्टौ योजनानि विष्कम्भेण सातिरेकाण्यष्टौ योजनानि सर्वाग्रेण प्रज्ञप्ता वज्रमयमूला रजतसुप्रतिष्ठितविडिमा एवं चैत्यवृक्ष वर्णको यावत् सर्वरिष्टमय विपुलकन्दा वैडूर्यरुचिरस्कन्धा सुजातवरजातरूप प्रथमकविशालशाला नानामणिरत्नविविधशाखा प्रशाखवैडूर्य पत्र तपनीय पत्रवृन्ता जाम्बूनदरक्त मृदुकसुकुमारप्रवालपल्लवाकुरधरा विचित्रमणिरत्नसुरभिकुसुमाः फलभारनमितशाखा सच्छाया सप्रभा सश्रीका सोद्योता अधिकं मनोनिवृतिकरा प्रासादिका दर्शनीयाऽभिरूपा प्रतिरूपासू०७७) ____टीका--'कहिणं भंते ! उत्तरकुराए कुराए'-हे भदन्त ! कुत्र कस्मिन् स्थाने खलु जम्बूद्वीपे द्वीपे उत्तर कुरुषु कुरुषु 'जंबु-सुदंसणाए' द्वितीयं नाम सुदर्शना यस्याः तस्याः जंब्वाः 'जंबुपेढेनाम पेढे -पन्नत्ते' जम्ब्वाः सम्बन्धि पीठं जम्बूपीठं नाम पीठम् प्रदेश:-स्थितिः प्रज्ञप्तं प्रथितमिति प्रश्नः ? भगवानाह-'गोयमा' हे गौतम ? 'जंबूदीवे दीवे जंबू नामके द्वीपे 'मंदरस्स 'कहि णं भंते ! उत्तरकुराए' इत्यादि । टीकार्थ-हे भदन्त ! उत्तरकुरु क्षेत्र में जम्बू सुदर्शन वृक्ष का जम्बूपीठ नामका पीठ कहां पर है । इसके उत्तर में प्रभु कहते हैं-'गोयमा 'कहिणं भंते ! उत्तरकुराए कुराए' त्यादि ટીકાર્થ– હે ભગવન ઉત્તરકુરૂક્ષેત્રણ જંબુસુદર્શન વૃક્ષનું ખૂપીઠ નામનું पीठ यां यावत छ ? २५ प्रश्नना उत्तरमा प्रभुश्री ४ छ -'गोयमा! जंबु જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy