SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे शब्दायित्वा-एवम् अवादीत्-क्षिप्रमेव भो देवानुप्रियाः ! विजयाया राजधान्याः सिंधाटकेषु चित्रैषु चतुष्कोणेषु च चत्वरेषु च चतुर्मुखेषु च महापथपथेषु प्रासादेषु च प्राकारेषु चाऽट्टालकेषु च चरिकासु च द्वारेषु च गोपुरेषु च तोरणेषु च वापीषु च पुष्करिणीषु च यावत्-विलपङ्क्ति सु चाऽऽरामेषु च-उद्यानेषु च काननेषु च वनेषु च वनषण्डेषु च वनराजिषु चाऽनिकां कुरुत कृत्वा ममाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयत । ततः खलु ते आभियोगिका देवा विजयेन देवेन-एवमुक्ताः सन्तः यावत्-हृष्ठतुष्टाः विनयेन प्रतिशृण्वन्ति प्रतिश्रुत्य विजयायाः राजधान्याः संधाटकेषु च यावदनिकां कृत्वा यत्रैव विजयो देवस्तत्रैवोपागच्छन्ति तत्रैवोपागत्य-एतम् आज्ञप्तिकां प्रत्यर्पयन्ति । ततः खलु स विजयो देव स्तेषामाभियोगिकानां देवाना मन्तिके एतमर्थ श्रुत्वानिशम्य हृष्ट तुष्ट चित्तानन्दितो यावत् हृदयः यत्रैव नन्दा पुष्करिणी तत्रैवोपागच्छति उपागत्य पूर्वेण तोरणेन यावत् हस्तौ पादौ प्रक्षालयति प्रक्षाल्याऽऽचान्त श्रोक्षः परमशुचिभूतो नन्दा पुष्करिणीतः प्रत्युत्तरति प्रत्युत्तीर्य यत्रैव सभासुधर्मा तत्रैव प्रधावितवान् गमनाय ततः स खलु स विजयो देवश्चतुर्भिः सामानिक सहस्रैः यावत् षोडषाऽऽत्मरक्षकदेवसहस्रैः सर्वऋद्धया यावद् निर्धापनादितरवेण यत्रैव सभा सुधर्मा तत्रैवोपागच्छति तत्रैवोपागत्य सभां सुधर्मा पूर्वेण द्वारेणाऽनुप्रविशति अनुप्रविश्य यत्रैव मणिपीठिका तत्रैवोपागच्छति तत्रैवोपागत्य सिंहासनवरगतः पूर्वाऽभिमुखः सन्निपण्णः ॥सू० ६९॥ व्याख्यानिगदसिद्धा मूलम्-तएणं तस्स विजयस्त देवस्स चत्तारि सामाणिय साहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं पत्तेयं पत्तेयं पुठ्वणत्थेसु भद्दासणेसु णिसीयंति। तएणं तस्स विजयस्स देवस्स चत्तारि अग्गमहिसीओ पुरथिमेणं पत्तेयं पत्तेयं पुव्वणत्थेसु भद्दासणेसु णिसीयंति । तएणं तस्स विजयस्स दाहिणपुरथिमेणं अभितरियाए परिसाए अट्ट देवसाहस्सीओ पत्तेयं २ जाव णिसीयंति । एवं दक्खिणेणं मज्झिमियाए परिसाए दस देवसाहस्सीओ जाव णिसीयंति । दाहिणपच्छिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीओ पत्तेयं पत्तेयं जाव णिसीयति । तएणं तस्स विजयस्स देवस्स पञ्चस्थिमेणं सत्त જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy