SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३३६ जीवाभिगमसूत्रे सूत्रकंत्र्यस्थिसूत्रकं मुरविं कण्ठमुरविं प्रालम्वकुण्डले चूडामणिं चित्ररत्नोत्कटं मुकुटं पिनाति, पिनह्य ग्रन्थिम-वेष्टिम-पूरिम संघातिमेन चतुर्विधेन माल्येन कल्पवृक्षमिवाऽऽत्मानमलकृतविभूषितं करोति कल्पवृक्षमिवाऽलङ्कृतविभूषितं कृत्वा दर्दरमलयसुगन्ध गन्धिकै र्गन्धै गात्राणि सुक्रीडति सुक्रीडय दिव्यं च सुमनोदामपिनह्यति । ततः खलु स विजयो देवः केशाऽलङ्कारेण वस्रालङ्कारेण माल्यालङ्कारेणाऽऽभरणालङ्कारेण चतुर्विधेनाऽलङ्कारेणालङ्कृतो विभूषितः सन् परिपूर्णालङ्कारः सिंहासनादभ्युत्तिष्ठति सिंहासनादभ्युत्थायाऽलङ्कारिकसभायाः पूर्वेण द्वारेण प्रतिनिष्क्रमति-प्रतिनिष्क्रम्य यत्रैव व्यवसायसमा तत्रैवोपागच्छति तत्रैवोपागत्य व्यवसायसभा मनुप्रदक्षिणो कुर्वन्-२ पूर्वद्वारेणानुप्रविशति पूर्वद्वारेणानुपविश्य यत्रैव सिंहासनं तत्रैवोपागच्छति तत्रैवोपागत्य सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः । ततः खलु तस्य विजयस्य देवस्याऽऽभियोगिका देवा पुस्तकरत्नमुपनयन्ति ततः खलु स विजयो देवः पुस्तकरत्नं गृह्णाति पुस्तकरत्नं गृहीत्वा मुञ्चति मुक्त्वा पुस्तकरत्नं विघाटयति पुस्तकरत्नं विघाटय पुस्तकरत्नं वाचयति पुस्तकरत्नं वाचयित्वा धार्मिकं व्यवसायं प्रगृह्णाति धार्मिक व्यवसायं प्रगृह्य पुस्तकरत्नं प्रतिनिक्षिपति पुस्तकरत्नं प्रतिनिक्षिप्य सिंहासनादम्युत्तिष्ठति अभ्युत्थाय व्यवसायसभायाः पूर्वद्वारेण प्रतिनिष्क्रामति पूर्वद्वारेण प्रतिनिष्क्रम्य यत्रैव नन्दा पुष्करिणी तत्रैवोपागच्छति तत्रैवोपागत्य पुष्करिणीमनुप्रदक्षिणीकुर्वन् पूर्वद्वारेणाऽनुप्रविशति पूर्वद्वारेणाऽनुप्रविश्य त्रिसापानप्रतिरूपकेण प्रत्यवरोहति त्रिसोपानप्रतिरूपकेण प्रत्यवरुह्य हस्तौ पादौ प्रक्षालयति हस्तौ पादौ प्रक्षाल्य एकं महत् श्वेतं रजतमयं विमलसलिलपूर्ण मत्तगजमहामुखाकृतिसमानं भृङ्गारं प्रगृहंति भृङ्गारं प्रगृह्य यानि तत्रोत्पलानि पद्मानि यावत्-शतसहस्रपत्राणि तानि गृह्णाति तानि गृहीखा नन्दातः पुष्करिणीतः प्रत्युत्तरति नन्दापुष्करिणीत प्रत्युत्तीर्य यत्रैव सिद्धायतनं तत्रैव प्रधावितवान् गमनाय । ततः खल तस्य विजयस्य देवस्य चत्वारि सामानिकसहस्राणि यावदन्ये च बहवो वानव्यन्तराः देवाः देव्यश्च अप्येकका उत्पलहस्तगताः यावत्-हस्तगता: विजयं देवं पृष्ठतः पृष्ठतोऽनुगच्छन्ति, ततः खलु तस्य विजयस्य देवस्य बहव आभियोगिकाः देवा देव्यश्च कलशहस्तगताः यावत्-धूपकडुच्छुकहस्तगताः विजयं देवं पृष्ठतः पृष्ठतोऽनुगच्छन्ति । ततः खलु स विजयो देवश्चतुर्भिः सामानिकसहस्रैः यावदन्यैश्च बहुभिर्वानव्यन्रैर्देवैश्च देवीभिश्च साध सम्परिवृतः सर्वऋद्धया सर्वद्युत्या यावत्-निर्घोषनादितरवेण यत्रैव सिद्धायतनं तत्रैवोपागच्छति तत्रैवोपागत्यसिद्धायतनमनुप्रदक्षिणी कुर्वन्-२ पूर्वद्वारेणाऽनुप्रविशति अनुप्रविश्य यत्रैव देवच्छन्दक स्तत्रैवोपागच्छति तत्रैवोपागत्याऽऽलोके जिनप्रतिमानां प्रणाम करोति જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy