SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३. उ. ३ सू. ६० विजयायाः चतुर्दिक्षु वनपण्डादिकनि० १६५ वेदिकायाः अयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा वज्रमया नेमा रिष्टमयाः प्रतिष्ठानाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयाः फलकाः वज्रमयाः, सन्धयः - लोहिताक्षमय्यः सूच्यः, नानामणिमयानि कलेवराणि, कलेवरसंघाताः नानामणिमयानि रूपाणि, नानामणिमयाः रूपसंघाटाः, अङ्कमयाः पक्षाः, पक्षवाहाः ज्योतीरसमयाः वंशाः, वंशकवेलुकाश्च रजतमयाः, पट्टिकाः जातरूपमय्यः अवधान्यः वज्रमय्यः उपरि पुंछन्यः सर्वश्वेतं रजतमयं तत् खलु आच्छादनम् । सा खलु पद्मवर वेदिका एकैकेन - हेमजालेन, एकैकेन गवाक्षजालेन, एकैकेन किङ्किणी. जालेन यावन्मणिजालेन, कनकजालेन रत्नजालेन, एकैकेन पदमवरजालेन सर्वरत्नमयेन सर्वतः समन्तात् सम्परिक्षिप्ता । तानि खलु जालानि तपनीयलम्बूसकाणि सुवर्णप्रतरकमण्डितानि नानामणिरत्नानि विविधहारार्द्धहारोपशोभित समुदायानि ईपदन्योन्यमसम्प्राप्तानि पूर्वापरदक्षिणोत्तरागतैवर्तिर्मन्दं मन्दम् एजमानानि कम्पमानानि लम्बमानानि शब्दायमानानि तेनोदारेण मनोज्ञेन कर्णमनोनिवृतिकरेण शब्देन सर्वतः समन्तात् आपूर्यमाणानि श्रियाऽतीवोपशोभमा नानि उपतिष्ठन्ति । तस्याः खलु पद्मवर वेदिकायाः तत्र तत्र देशे तत्र तत्र बहवो हयसंघाटाः, गजसङ्घाटाः, किन्नरसंघाटाः, किम्पुरुषसंघाटाः, महोरगसंघाटाः, गन्धर्वसंधाटाः, वृषभसंघाटाः, सर्व रत्नमया: अच्छा: श्लक्ष्णाः लहा घृष्टाः मृष्टाः नीरजस्का: निर्मलाः निष्पङ्काः निष्कण्टकच्छायकाः समरीचिकाः सोद्योतः प्रासादीयाः दर्शनीयाः अभिरूपाः प्रतिरूपाः । तस्याः खलु पद्मबरवेदिकाया स्तत्र तत्र देशे तत्र तत्र बहवो हयपङ्क्तयः तथैव यावत् प्रतिरूपाः । एवं - हयवीथयो यावत्प्रतिरूपाः । एवम् हयमिथुनकानि यावत्प्रतिरूपाणि तस्याः खलु पद्मवर वेदिकायाः तत्र तत्र देशे तत्र बहुचः पद्मलता नागलताः, एवमशोक० चंपकचूतवनवासन्तिकाऽतिमुक्तककुन्दश्यामलता : नित्यं कुसुमिताः यावत् सुविभक्त पिण्डमञ्जरीवतंसकधर्भ्यः सर्वरत्नमय्यः श्लक्ष्णाः लण्हाः धृष्टाः सृष्टाः नीरजस्का : नीर्मला : निष्पङ्काः निष्कण्टकच्छायाः सप्रभाः समरीचिकाः सोद्योताः प्रासादीयाः दर्शनीयाः अभिरूपाः प्रतिरूपाः । तस्याः खलु पद्मवरवेदिकाया स्तत्र तत्र देशे तत्र तत्र बहवोऽक्षयसौवस्तिकाः प्रज्ञप्ताः सर्वरत्नमयाः अच्छाः यावत्प्रतिरूपा : तत्केनाऽर्थेन भदन्त ! एव मुच्यते पद्मवरवेदिका पद्मवर वेदिका, गौतम ! पद्मवर वेदिकायास्तत्र तत्र देशे तत्र तत्र वेदिकासु वेदिका वेदिकाशीर्षक फलकेषु वेदिकपुटान्तरेषु स्तम्भेषु स्तम्भवाहासु स्तम्भशीर्षेषु स्तम्भपुटान्तरेषु सूचीषु सूचीमुखेषु सूचीफलकेषु सूचीपुटान्तरेषु पक्षेषु पक्षवाहासु पक्षपर्यन्तेषु बहून्युत्पलानि पद्मानि यावत् शतसहस्रपत्राणि सर्वरत्नमया अच्छानि श्लक्ष्णानि लण्हानि धृष्टानि नीरजस्कानि निर्मलानि निष्प જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy