SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू. ६० विजयायाः चतुर्दिक्षु वनषण्डादिकनि० १५१ भागस्य बहुमध्यदेशभागे अत्र खलु-एकं महदुपकारिकालयनं प्रज्ञप्तं द्वादश योजनशतानि-आयामविष्कम्भेण, त्रीणि योजनसहस्राणि सप्तयोजनशतानि पंच नवतानि किश्चिद्विशेषाधिकानि परिक्षेपेणाऽर्द्धक्रोशं बाहल्येन सर्वजाम्बूनदमयमच्छ यावत् प्रतिरूपम् । तत् खलु-एकया पद्मवरवेदिकया-एकेन वनषण्डेन च सर्वतः समन्तात् संपरिक्षिप्तं पद्मवरवेदिका वर्णनं-वनषण्डवर्णनं यावद् विहरन्ति, स खलु-वनषण्डो देशोने द्वे योजने चक्रवालविष्कम्भेण उपकारिकालयन समपरिक्षेपेण ॥ तस्य खलु उपकारिकालयनस्य चतुर्दिक्षु चत्वारि त्रिसोपानकप्रतिरूप काणि प्रज्ञप्तानि वर्णकः, तेषां खलु त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं प्रत्येक तोरणानि प्रज्ञप्तानि छत्रातिछत्राणि ।। तस्य खलु-उपकारिकालयनस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तो यावन्मणिभिरुपशोभितः मणिवर्णकः गन्धरस-स्पर्शाः, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र खलु-एको महान् मूलप्रासादावतंसकः प्रज्ञप्तः, स खलु प्रासादावतंसकः द्वापष्टि योजनानि-अर्द्ध योजनश्चोर्ध्व मुच्चत्वेन-एकत्रिंशद् योजनानि क्रोशञ्चाऽऽयाम विष्कम्भेणाऽभ्युद्गतोत्सृत प्रहसित स्तथैव तस्य खलु-प्रासादावतंसकस्याऽन्तबहुसमरमणीयो भूमिभागः प्रज्ञप्तो यावन्मणि स्पर्श उल्लोकः।। तस्य खलु-बहसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र खलु-एका महती मणिपीठिका प्रज्ञप्ताः सा चैकं योजनमायाविष्कम्भेणाऽर्द्धयोजनं बाहल्येन सर्वमणिमयी अच्छा श्लक्ष्णाः ॥ तस्याः खलु मणिपीठिकाया उपरि एकं महत् सिंहासनं प्रज्ञप्तम्, एवं सिंहासनवर्णकः सपरिवारः, तस्य खलु प्रासादावतंसकस्योपरि बहून्यष्टमङ्गलकानि ध्वजाश्छत्रातिछत्राणि ॥ तत्र खलु प्रासादावतंसकोऽन्यैश्चतुर्भिस्तदर्बोच्चत्वप्रमाणमात्रैः प्रासादावतंसकैः सर्वतः समन्तात्-संपरिक्षिप्तः, स खलु प्रासादावतंसकः एकत्रिंशद् योजनानि क्रोशं चोर्ध्वमुच्चत्वेन अर्द्धषोडशयोजनानि अर्धक्रोशश्चाऽऽयामविष्कम्भेणाऽभ्युद्गत स्तथैव । तेषां खलु प्रासादावतंसकानाम् अन्तर्बहुसमरमणीया भूमिभागा उल्लोकाः। तेषां खलु बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येक सिंहासनं प्रज्ञप्तम् वर्णकः, तेषां परिवारभूतानि भद्रासनानि प्रज्ञप्तानि तेषां खलु अष्टमङ्गलकानि ध्वजा इछत्राऽतिच्छत्राणि ते खलु प्रासादावतंसका अन्यैश्चतुभिश्चतुर्भि स्तदर्बोच्चत्वप्रमाणमात्रैः प्रासादावतंसकैः सर्वतः समन्तात संपरिक्षिप्ताः॥ ते खलु प्रासादावतंसकाः अर्द्धषोडशयोजनानि-अर्धक्रोशं चोर्ध्व मुच्चत्वेन देशोनानि-अष्टौ योजनान्यायामविष्कम्भेणाऽभ्युद्गत स्तथैव, तेषां खलु प्रासादावतंसकानामन्तबहुसमरमणीया भूमिभागा उल्लोकाः, तेषां खलु-बहुसमरमणीयानां भूमिभागानां मध्यदेशभागे प्रत्येकं प्रत्येकं पद्मासनं જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy