________________
१३८८
जीवाभिगमसूत्रे
त्थोवा परित्ता नो परित्ता नो अपरिता अनंतगुणा अपरित्ता अनंतगुणा ॥ सू० १४४॥
छाया - तत्र खलु ये ते एवमुक्तवन्त स्त्रिविधाः सर्वजीवाः प्रज्ञप्ताः ते एवमुक्तवन्तः तद्यथा--सम्यग्दृष्टयो- मिथ्यादृष्टयः - सम्यङ् मिथ्यादृष्टयः ३ । सम्यग्दृष्टिः खलु भदन्त ! कालतः कियच्चिर ं भवति ? गौतम ! सम्यग्दृष्टिद्विविधः प्रज्ञप्तः, तद्यथा - सादिको वा अपर्यवसितः, सादिको वा सपर्यवसितः २ तत्र खलु योऽसौ सादिकः सपर्यवसितः स जघन्येनाऽन्तर्मुहूर्तम् उत्कर्षेण षट्षष्टिः सागरोपमाणि सातिरेकाणि । मिथ्यादृष्टि स्त्रिविधः प्रज्ञप्तः तद् यथासादिको वा सपर्यवसितः अनादिको वा अपर्यवसितः अनादिको वा सपर्यवसितः, तत्र खलु योऽसौ सादिकः सपर्यवसितः स जघन्येनान्तर्मुहूर्तम् उत्कर्षेणानन्तं कालं यावद् अपार्ध पुगलपरावर्त्त देशोनम् । सम्यङ् मिध्यादृष्टिर्जघन्येनान्तमुहूर्तम् - उत्कर्षेणान्तर्मुहूर्तम् । सम्यग्दृष्टेरन्तरं सादिकस्याऽपर्यवसितस्य नास्त्यन्तरम्, सादिकस्य सपर्यवसितस्य जघन्येनान्तर्मुहूर्तम् उत्कर्षेणानन्तं कालं यावदपार्थं पुद्गलपरावर्तम् । मिथ्यादृष्टेरनादिकस्याऽपर्यवसितस्य नास्त्यन्तरम् अनादिकस्य सपर्यवसितस्य नास्त्यन्तरम् सादिकस्य सपर्यवसितस्य जघन्येनान्तमुहूर्तम् उत्कर्षेण षट् षष्टिः सागरोपमाणि सातिरेकाणि, सम्यग्रमिध्यादृष्टेजघन्येनाऽन्तर्मुहूर्तम् - उत्कर्षेणानन्तं कालं यावदपार्श्वपुद्गलपरावर्त्ते देशोनम् । अल्पबहुत्वम् - सर्वस्तोकाः सम्यङ् मिथ्यादृष्टयः सम्यग्दृष्टयोऽनन्तगुणाः । मिथ्यादृष्टयोऽनन्तगुणाः । अथवा - त्रिविधाः सर्वजीवः प्रज्ञप्ताः तद्यथा - परीत्ताश्व १ अपरीताः २ नो परित्ता नो अपरीत्ताः ३ । परीतः खलु भदन्त ! कालतः कियच्चिरं भवति, गौतम ! परीत्तो द्विविधः प्रज्ञप्तः तद्यथा - कायपरीतश्च १ संसारपरीतश्च २ । कायपरीतः खलु भदन्त ! जघन्येनान्तर्मुहूर्तम् उत्कर्षेणा संख्येयं कालं यावद् असंख्येया लोकाः । संसार परीतः खलु भदन्त ! संसारपरीत इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येनान्तर्मुहूर्तम् उत्कर्षेणानन्तं कालं यावदपार्थं पुद्गलपरावर्त्तं देशोनम् । अपरीत्तः खलु भदन्त ! अपरितो द्विविधः प्रज्ञप्तः कायापरित्तश्च १ संसारापरीतश्च २ | कायापरीत्तः खलु जघन्येनान्तमुहूर्तम् - उत्कर्षेणानन्तं कालं वनस्पतिकालः संसारापरीत्तो द्विविधः प्रज्ञप्तः अनादिकोवाऽपर्यवसितः १ अनादिको वा सपर्यवसितः २ नो परीतो नो अपरोत्तः सादिकोऽपर्यवसितः । कायपरोत्तस्य जघन्येनान्तर्मुहूर्तम् - उत्कर्षेण वनस्पतिकालः, संसारपरीत्तस्य नास्त्यन्तरम् कायापरीतस्य जघन्ये नान्तर्मुहूर्तम् - उत्कर्षेणासंख्येयं कालं पृथिवीकालः । संसारापरीतस्या -
9
જીવાભિગમસૂત્ર