________________
प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू. ११९ शक्रादिदेवानां परिषदादिनि० १०२१
छाया - शक्रस्य खलु भदन्त ! देवेन्द्रस्य देवराजस्य कतिपर्षदः प्रज्ञप्ताः ? गौतम ! तिस्रः पर्षदः प्रज्ञप्ताः तद्यथा-समिता चण्डा जाता, आभ्यन्तरिका समिता, माध्यमिका चण्डा, बाह्या जाता । शक्रस्य खलु भदन्त ! देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि ? मध्यमिकायां पर्षदि कतिदेवसहस्राणि प्रज्ञप्तानि तथैव बाह्यायां पृच्छा, गौतम ! शक्रस्य देवेन्द्रस्य देवराजस्य आभ्यन्तरिकायां पर्षदि द्वादश देवसहस्राणि प्रज्ञप्तानि, माध्यमिकायां पर्षदि चतुर्दश देवसहस्राणि २ प्रज्ञतानि, बाह्यायां पर्षदि षोडश देवसहस्राणि प्रज्ञप्तानि, तथाऽभ्यन्तरिकायां पर्षदि सप्तदेवी शतानि माध्यमिकायां षड् देवी शतानि बाह्यायां पंचदेवी शतानि प्रज्ञप्तानि । शक्रस्य खलु भदन्त ! देवेन्द्रस्य देवराजस्याभ्यन्त रिकयां पर्षद देवानां कियन्तं कालं स्थितिः प्रज्ञप्ताः ? एवं माध्यमिकायां बाह्यायामपि गौतम ! शक्रस्य देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्षदि पंच पल्योपमानिस्थितिः प्रज्ञप्ता, माध्यमिकायां पर्षदि चत्व पल्योपमानिनि स्थितिः प्रज्ञप्ताः - बाह्यायां पर्षदि देवानां सागरोपमाणि षट् पल्योपमानि स्थितिः प्रज्ञप्ता - बाह्यायां पर्षदि द्वादश सागरोपमाणि पञ्चपल्योपमानि स्थितिः प्रज्ञप्ता । महाशुक्रस्यापि यावतिस्रः पर्षदो यावदाभ्यन्तरिकायाम् एकं देवसहस्रम् माध्यमिकायां द्वे देवसहस्रे प्रज्ञप्ते बाह्यायां चत्वारि देवसहस्राणि आभ्यन्तरिकायां पर्षदि अर्धषोडशसागरोपमाणि पंचपल्योपमानि माध्यमिकायांमर्धषोडश सागरोपमाणि चत्वारि पल्योपमानि बाह्यायामर्धषोडशसागरोपमाणि त्रीणि पल्योपमानि अर्थः स एव । सहस्रारे पृच्छा यावद् आभ्यन्तरिकायां पर्षदि पञ्चदेवशतानि माध्यमिकायां पर्षदि एकं देवसहस्रम् बाह्यायां द्वे देवसहस्रे प्रज्ञप्ते स्थितिराभ्यन्तरिकायामर्धाष्टादश सागरोपमाणि सप्तपल्योपमानि स्थितिः प्रज्ञप्ता एवं माध्यमिकायां मर्धाष्टादश-षट् पल्योपमानि, बाह्यायामर्धाष्टादश सागरोपमाणि पञ्च पल्योपमानि अर्थ: स एव । आनतप्राणतस्यापि पृच्छा यावत्तिस्रः पर्षदः, नवरम् - आभ्यन्तरिकायामर्धतृतीयानि देवशतानि माध्यमिकायां पंचदेवशतानि बाह्यायामेकं देवसहस्रं स्थितिः आभ्यन्तरिकायामेकोनविंशतिः सागरोपमाणि पञ्च च पल्योपमानि एवं माध्यमि० एकोनविंशतिः सागरोपमाणि चत्वारि च पल्योपमानि, बाह्यायां पर्षदि एकोनविंशतिः सागरोपमाणि त्रीणि च पल्योपमानि स्थितिः, अर्थः स एव । कुत्र खलु भदन्त ! आरणाच्युतयोर्देवयोस्तथैवाच्युतः स परिवारो यावद् विहरति अच्युतस्य खलु देवन्द्रस्य तिस्र पर्षद : प्रज्ञप्ताः आभ्यन्तरपर्षदि देवानां पञ्चविंशं शतम्, माध्यमिकायामतृतीयानि शतानि बाह्यायां पञ्चशतानि आभ्यन्तरिकायामेकविंशतिः सागरोपमाणि सप्त च पल्योपमानि माध्यमिकायांमेकविंशतिः सागरोपमाणि षट् पल्योपमानि बाह्यायामेकविंशतिः सागरोपमाणि पञ्च च पल्योपमानि स्थितिः प्रज्ञप्ता । कुत्र खलु भदन्त ! अधस्तनग्रैवेयकाणां देवानां विमानानि प्रज्ञप्तानि कुत्र
જીવાભિગમસૂત્ર