SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ ८३५ प्रमेयद्योतिका टीका प्र.३ उ.३सू.५३ वनषण्डादिकवर्णनम् चोयकपुटानां वा, तगरपुटानां वा, एलापुटानां वा चन्दनपुटानां वा कुंकुमपुटानां वा, उशीरपुटानां वा, चम्पकपुटानां वा, मरुबकपुटानां वा दमनकपुटानां वा जाती पुटानां वा, यूथिकपुटानां वा, मल्लिकापुटानां वा, नवमल्लिकापुटानां वा, केतकीपुटानां वा, कर्पूरपुटानां वा, अनुवाते उद्भिद्यमानानां वा, निर्भिद्य. मानानां वा, कुटयमानानां वा, रुविज्जमानानां वा, उत्कीर्यमाणानां वा, विकीर्यमानानां वा, परिभुज्यमानानां वा, भाण्डाद् भाण्डं संहियमाणानाम् उदारा मनोज्ञा घ्राणमनोनिवृत्तिकराः सर्वतः समन्तात् गन्धा अभिनिस्रवन्ति, भवेदेताबद्रुपः स्यात् ? नायमर्थः समर्थः, तेषां खलु तृणानांमणीनां चेतः इष्टतरक एव यावद मन आमतरक एव गन्धः प्रज्ञप्तः । तेषां खलु भदन्त ! तृणानां मणीनां च कीदृशः स्पर्शः प्रज्ञप्तः ? तद्यथानामक-आजिनकमिति वा, रुतमिति वा, बूर इति वा, नवनीतमिति वा, हंसगर्भतुलीति वा, शिरीषकुसुमनिचितमिति वा, वालमुकुद पत्रराशिरिति वा, भवेदेतावद्रूपः स्यात् ? नायमर्थः समर्थः, तेषां तृणानां मणीनां चेत इष्टतरक एव यावत् स्पर्शः प्रज्ञप्तः । तेषां खलु भदन्त ! तृणानां पूर्वापरदक्षिणोत्तरागतैतिर्मन्दं मन्दमें जितानां व्येजितानां कम्पितानां क्षोभितानां चालितानां स्पन्दितानां घट्टितानामुदीरितानां कीदृशः शब्दः प्रज्ञप्तः, तद्यथानामकः शिबि. काया वा, स्यन्दमानिकाया वा, रथवरस्य वा,सच्छत्रस्य सघण्टाकस्य सतोरण. वरस्य सनन्दिघोषस्य सकिंकिणीहेमजालपर्यन्तपरिक्षिप्तस्य हैमवतक्षेत्र चित्रविचित्र तैनिशकनक नियुक्तदारुकस्य सुपिनद्धारकमण्डलधुराकस्य कालायससुकृतनेमियन्त्रकर्मण आकीर्णवर-तुरगसुसंप्रयुक्तस्य कुशलनरछेकसारथि संपरिगृहीत. स्य शरशतद्वात्रिंशत्तोरणपरिमण्डितस्य सकंकटावतंसकस्य सचापशरप्रहरणावरण भृतस्य योधयुद्धसज्जस्य राजाङ्गणे वा, अन्तःपुरे वा, रम्ये वा मणिकुटिमतले अभीक्ष्णमभीक्ष्णमभीघटयमानस्य अभिनिवय॑मानस्य वा ये उदरा मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्तात् शब्दाः अभिनिःस्रवन्ति, भवेदेतावद्रूपः स्यात् ? नायमर्थः समर्थः-तद्यथानामकः वैतालिक्या वीणाया उत्तरमन्दामूर्छिताया अड्डे सूप्रतिष्ठाया श्चन्दनसारकोणपरिघट्टितायाः कुशलनरनारीसुसंपरिगृहीतायाः प्रदोष प्रत्यूषकालसमये मन्दं मन्दमे जितायाः व्येजितायाः कर्मितायाः क्षोभिताया: चालितायाः स्पन्दिताया घहितायाः उदीरिताया उदारा मनोज्ञाः कर्णमनोनितिकराः सर्वतः समन्तात् शब्दा अमिनि स्रवन्ति, भवे देतावद्रूपः स्यात, नायमर्थः समर्थः, तद्यथानामकः किंनराणां वा, किंपुरुषाणां वा, महोरगाणां वा, गन्धर्वाणां वा भद्रशालवनगतानां वा नन्दनवनगतानां वा, सौमनसवनगतानां पण्डकवनगतानां वा, हिमवतमलयमन्दरगिरिगुहासमन्वागतानां वा, एकतः संहितानां संमुखागतानां समुपविष्टानां प्रमुदितप्रक्रीडितानां गीतरतिगन्धर्वहर्षितमनसां જીવાભિગમસૂત્ર
SR No.006344
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages918
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy