________________
६८
जीवाभिगमसूत्रे एतस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्याः घनवातवलयः कियान् बाहल्येन प्रज्ञप्तः ? गौतम ! अपञ्चमानि योजनानि बाहल्येन प्रज्ञप्तः । शकरामभाया: पच्छा, गौतम ! क्रोशोनानि पञ्चयोजनानि बाहल्येन प्रज्ञप्तः । एवमेतेन अभिलापेन बालुकापभायाः पञ्चयोजनानि बाहल्येन प्रज्ञप्तः । पङ्कममायाः सक्रोशानि पञ्चयोजनानि बाहल्येन प्रज्ञप्तः । धूमप्रमायाः अर्द्धषष्ठानि योजनानि बाहल्येन प्रज्ञप्तः। तमःप्रभायाःक्रोशोनानि षट्योजनानि बाहल्येन प्रज्ञप्तानि । अधः सप्तम्याः षड़योजनानिबाहल्येन प्रज्ञप्तः । एतस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्याः तनुवातवलयः कियान् बाहल्येन प्रज्ञप्तः? गौतम ! षट्कोशाच बाहल्येन प्रज्ञप्तः । एवमेतेन अभिलापेन शर्कराप्रमायाः सत्रिभागान् षट्कोशान् बाहल्येन प्रज्ञप्तः। बालुकाममायाः त्रिभागोनान् सप्तकोशान् बाहल्येन प्रज्ञप्तः पङ्कप्रभायाः सप्तक्रोशान् बाहल्येन प्रज्ञप्तः । धूममभायाः सत्रिभागान् सप्तक्रोशान् तमामभायाः त्रिभागोनान् अष्टक्रोशान् बाहल्येन प्रज्ञप्तः अधः सप्तम्याः पृथिव्या अष्टक्रोशान् बाहल्येन प्रज्ञप्तः। एतस्यां खलु भदन्त ! रत्नप्रभायां प्रथिव्यां घनोदधिवलयस्य षइयोजन बाहल्यस्य क्षेत्रच्छेदेन छिद्यमानस्य सन्ति द्रव्याणि वर्णतः काल यावत हन्त सन्ति । शर्करामभायां खलु भदन्त ! पृथिव्यां घनोदधिवलयस्य सत्रिभागषड़योजन बाहल्यस्य क्षेत्रच्छेदेन छिद्यमानस्य यावद् हन्त सन्ति । एवं यावद्धः सप्तम्याः यद् यस्य बाहल्यम् । एतस्यां खलु भदन्त ! रत्नप्रभापृथिव्यां घनवातवलयस्याद्वैपञ्चमयोजनबाहल्यस्य क्षेत्रच्छेदेन छिद्यमानस्य यावद् हन्त सन्ति । एवं यावदधः सप्तम्या यदू यस्य बाहल्यम् । एवं तनुवातवलयस्यापि यावदधः सप्तम्यां यद्यस्य बाहल्यम् । एतस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्या धनोदधिवलयः किं संस्थितः प्रज्ञप्तः ? गौतमः ! व्रतः वलयाकारसंस्थानसस्थितः प्रज्ञप्तः । यः खलु इमां रत्नप्रभा पृथिवीं सर्वतः समन्तात् संपरिक्षिप्य खलु तिष्ठति । एवं यावदधः सप्तम्याः पृथिव्या घनोदधि वलयः नवरम् आत्मीयात्मीयां पृथिवी संपरिक्षिप्य खलु तिष्ठति । एतस्याः खलु भदन्त ! रत्नपभायाः पृथिव्याः घनवातवलयः किं संस्थितः प्रज्ञप्तः ? गौतम ! वृतः वलयाकार तथैव यावद् खलु एतस्या रत्नमभायाः पृथिव्या घनोदधिवलयं सर्वतः समन्तात् संपरिक्षिप्य खलु तिष्ठति । एवं यावदधः सप्तम्या घनवातवलयः । एतस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्यास्त नुवातवलयः किं संस्थितः प्रज्ञप्तः ? गौतम! वृतः वलयाकारसंस्थानसंस्थितः यावद् यः खलु एतस्या रत्नप्रभा पृथिव्याः धनवातवलयं सर्वतः समन्तात् संपरिक्षिप्य खलु तिष्ठति । एवं यावदधः
જીવાભિગમસૂત્ર