SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू. ३९ एकोरुकस्थानामाहारादिकम् भद्द थालिपाग चोलोवणयण सीमंतुण्णय णमतपिंडनिवेयणा णं ते मणुयगणा पण्णत्ता समणाउसो ! || सू० ३८|| , छाया - ते खलु भदन्त ! मनुजाः किमाहारम् आहारन्ति ? गौतम ! पृथिवी - पुष्पफलाहारास्ते मनुजगणाः प्रज्ञप्ता : श्रमणायुष्मन् ! तस्याः खलु भदन्त ! पृथिव्याः कीदृश आस्वादः प्रज्ञप्तः ? गौतम ! स यथा नामकः गुड इति वा खण्ड मिति वा शर्करा इति वा मत्स्यण्डिकेति वा बिसकन्द इति वा पर्पटमोदकमिति वा पुष्पोत्तरमिति वा पद्मोत्तरमिति वा अकोशितमिति वा, विजयेति वा महाविजयेति वा आदर्शोपसेति वा अणोवसाति वा चतुष्कं गोक्षीरं चतुः स्थान परिणतम् गुड़खण्ड मत्स्यण्डिकोपनीतं मन्दाग्निकृतं वर्णेनोपपेतं यावत्स्पर्शेन;भवेदेतद्रूप स्यात् ? नायमर्थः समर्थः तस्याः खलु पृथिव्याः इत इष्टतर एव यावद् मनोऽमतर एव आस्यादः खलु प्रज्ञप्तः तेषां खलु भदन्त ! पुष्पफलानां कीदृश आस्वादः खलु प्रज्ञप्तः, ? गौतम ! स यथा नामकः चातुरन्तचकवर्त्तिनः कल्याणं प्रवरमोजनं शतसहस्र निष्पन्नं वर्णेनोपपेतं गन्धेनोपपेतं रसेनोपपेतं स्पर्शेनोपपेतम् आस्वादनीयम् विस्वादनीयं दीपनीयम् बृंहणीयं दर्पणीयं मदनीयं सर्वेन्द्रियगात्रप्रल्हादनीयं भवेदेतद्रूपः स्यात् ?, नायमर्थः समर्थः तेषां खलु पुष्पफलानाम् इत इष्टतर एव यावद् आस्वादः खलु प्रज्ञप्तः । ते खलु भदन्त मनुजाः तमाहारमा हा कुत्र बसत उपयान्ति ? गौतम ! वृक्षगृहालयाः खलु ते मनुजगणाः प्रज्ञप्ताः श्रामणायुष्मन् ! ते खलु भदन्त ! वृक्षाः किं संस्थिताः प्रज्ञप्ताः ? गौतम ! कूटागार संस्थिताः प्रेक्षागृहसंस्थिताः छत्राकारसंस्थिताः ध्वजसंस्थिताः स्तूपसंस्थिताः तोरणसंस्थिता. गोपुर वेदिका - चोप्पालक संस्थिताः अट्टालक संस्थिताः मासाद संस्थिताः हर्म्यतल संस्थिताः गवाक्षसंस्थिताः वालाग्रयोतिकासंस्थिताः वलभीसंस्थिताः अन्ये तत्र बहवो वरभवनशयनासनविशिष्ट संस्थान संस्थिताः सुख शीतलच्छायाः खलु ते द्रुमगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! सन्ति खलु भदन्त ! एकोरुक द्वीपे द्वीपे गृहा वा गृहायनानि वा ? नायमर्थः समर्थः, वृक्षगृहालयाः खलु ते मनुजगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! एकोरुक द्वीपे द्वीपे ग्राम इति वा नागरमिति वा यावत् सन्निवेश इति वा, नायमर्थः समर्थः, यथेच्छित कामगामिनस्ते मनुजगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! एकोरुकद्वीपे द्वीपे असिरिति वा मषी इति वा कृषिरिति वा पण्यमिति वा वाणिज्यमिति वा नायमर्थः समर्थः, व्यपगतासिमषी कृषिपण्यवाणिज्याः खलु ते मनुजगणाः प्रज्ञप्ताः श्रमणायुष्मन ! अस्ति खलु भदन्त ! एकोरुक द्वीपे જીવાભિગમસૂત્ર ६१९ -
SR No.006344
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages918
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy