SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३सू.३६ एकोरुकद्वीपस्थितद्रमगणवर्णनम् ५४१ मानैः शोभमानं वनमालकृताममेव दीप्यमानम्, तथैव ते चित्राङ्गका-अपि द्रुमगणाः अनेक बहुविविध विस्रसावरिणतेन माल्यविधिना उपपेताः कुशविकुश विशुद्ध यावतिष्ठन्ति ६। एकोषकद्वीपे तत्र तत्र बहवश्चित्ररसा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणा युष्मन् ! यथा तत् सुगंधवरकलमशालिविशिष्ट निरुपहतदुग्धराद्धम्, शारदघृतगुडखण्डमधुमेलित मतिरसं परमान्नं भवेत् उत्तमवर्णगन्धवद राज्ञो यथा वा चक्रवर्तिनो भवेत् निपुणैः सूपपुरुषैः सज्जितैः चतुष्कल्प सेकसिक्त इवौदन: कलमशालि निर्वर्तितो विपक्वः सवाष्पमृदु विशदसकलसिक्थः अनेक शालनकसंयुक्तः अथवा परिपूर्ण द्रव्योपस्कृतः वर्णगन्धरसस्पर्शयुक्तबलवीर्यपरिणाम: इन्द्रियबलपुष्टिवर्द्धनः क्षुत्पिपासामथनः प्रधानक्वथित गुड खण्ड मत्स्यण्डिका घृतोपनीतः प्रमोदकः श्लक्ष्ण समितगर्भो भवेत् परमेष्टाङ्ग संयुक्त स्तथैव ते चित्ररसा अपि द्रुमगणा अनेक बहुविविध विस्त्रसापरिणते न भोजन विधिनोपपेताः कुशविकुश विशुदध यावत्तिष्ठन्ति ७ । एकोरुकद्वीपे खलु तत्र तत्र बहवो मण्यङ्गानाम द्रमगणाः प्रज्ञप्ताःश्रमणा युष्मन् ! यथा ते हाराहारवर्तनक मुकुट कुण्डल वा. मुत्तग हेमजाल मणिजाल कनकजालक-सूत्रोकाच्ययित कटकक्षुद्रिकैकावलि कण्ठसूत्रमकरिकोरः स्कन्धग्रेवेयक श्रोणीसूत्रक चूडामणि कनकतिलकपुल्ल सिद्धार्थककर्णपालिशशि सूर्यऋषभचक्रकतल भंग त्रुटितहस्तमालकवलक्षदीनारमालिका चन्द्रसर्यमालिका हर्षक के यूरवलय प्रालम्बागुलीयककाञ्चीमेखलाकलापप्रतरकप्रातिहारिक पादोज्ज्वल घण्टिका किङ्किणीरत्नोरुजालस्तिमित वरनूपुरचरणमलिका कनकनिकरमालिकाकाञ्चन मणिरत्नभक्तिचित्रा भूषणविधि बहप्रकारा स्तथैव ते मण्यङ्गा अपि द्रुमगणा अनेक बहुविविध विस्रसापरिणतेन भूषण-विधिनोपपेताः कुशविकुश विशुद्ध यावत्तिष्ठन्ति ८ । एकोरुकद्वीपे तत्र तत्र बहवो गेहाकारानाम द्रमगणाः प्रज्ञप्ता:श्रमणा युष्मन्! यथा त प्राकाराट्टालक चरिकद्वार गोपुरप्रासा. दाकाशतलमण्डपैकशाल-द्विशालक त्रिशालकचतुरस्र चतुःशाल गर्भगृहमोहनगृहवलभी गृह चित्रशालमालकभक्तिगृह वृतत्र्यंस्र चतुरस्रनन्दिकावतंसंस्थितायतपाण्डुरतलमु. ण्डमालहय॑म् अथवा खलु धवलहरार्द्ध मागध-विभ्रमशैलार्धशैल संस्थित कूटा. कारस्थ सुविधि कोष्ठकानेकगृह-सरणलयनापण विडंक जाल चन्द्रनियंहापवरक द्वारक चन्द्रशालिकारूप विभक्ति कलिता भवन विधिबहुविकल्पाः तथैव ते गेहाकारा अपि मगणाःअनेक बहुविविविखसापरिणताः सुखारोहणेन सुखोत्तारेण सुखानिष्क्रमणः प्रवेशेन ददरसोपानपंक्तिकलितेन प्रतिरिक्तेक सुखविहारेण मनोऽनुकूलेन भवनविधिनोपेताः कुशविकुश विशुद्ध वृक्षमूला यावत्तिष्ठन्ति ९। एकोरुकद्वीपे तत्र तत्र बहवोऽनग्नानाम द्रुमगणाः प्रज्ञप्ताः श्रमणा युष्मन् ! यथा ते अनेकश आजिनकक्षौमकम्बलदुकूलकौशेयकालमृग पट्टचीनाशुकवरणात-वरवणिगयतु आमरण चित्रश्लक्ष्ण कल्याणक भृङ्गीनालकज्जल-बहुवर्णरक्तपीतशुक्ल જીવાભિગમસૂત્ર
SR No.006344
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages918
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy