SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६८ जीवाभिगमसूत्रे कियन्ति निरयावासशतसहस्राणि प्रज्ञप्तानि ? हे गौतम ! बालुकाप्रभायाः पृथिव्या अष्टाविंशत्युत्तर योजनशतसहस्रबाहल्योपेताया उपरि एकं योजनसहस्रमवगाह्य अधस्तादेकं योजनसहस्र वर्जयित्वा मध्ये पइविंशतिसहस्रोत्तरे योजनशतसहस्रे । अत्र खलु बालुकाप्रभा पृथिवी नारकाणां पञ्चदशनिरयावासशतसहस्राणि भवन्ती. त्याख्यातं तीर्थकरैः, ते खलु नरका यावदशुभा नरकेषु वेदना ॥ पङ्कप्रभायाः खलु भदन्त पृथिव्याः विंशति सहस्रोत्तरयोजनशतसहस्रबाहल्योपेताया उपरि कियदवगाह्याधस्ताद कियद्वर्जयित्वा मध्ये कियत्प्रमाणकं कियन्ति निरयावासशतसहस्राणि प्रज्ञप्तानि गौतम ! पङ्कप्रभायाः खलु पृथिव्या विंशति. सहस्रोत्तर योजनशतसहस्र बाहल्ययुक्ताया उपयेकं योजनसहस्रमवगाहा अधस्तादपि एकं योजनसहस्रं वर्जयित्वा मध्ये अष्टादशोत्तरयोजनशतसहस्र, अत्र खलु पङ्कप्रभा पृथिवी नैरयिकाणां दश निरयावासशतसहस्राणि भवन्तीत्याख्यातम ते खलु नरका यावदशुमा नरकेषु वेदना इति ।। 'धूममभायाः खलु भदन्त ! पृथिव्या अष्टादशसहस्रोत्तरयोजनशतसहस्र बाहल्ययुक्ताया उपरितनभागे कियदवगाह्य अधस्ताद वर्जयित्वा मध्ये कियत् कियन्ति नरकावासशतसहस्राणि प्रज्ञप्तानि, भगवानाह- हे गौतम ! धूममभायाः प्रथिव्या अष्टादशसहस्र त्तर योजनसहस्र बाहल्ययुक्ताया उपरितनभागे एक योजनसहस्रमवगाह्य अधस्तादपि एकं योजनसहस्र वर्जयित्वा मध्यभागे षोडशसहस्रोत्तर योजनशतसहस्रे, अत्र खलु धूमप्रभा नैरयिकाणां योग्यानि त्रीणि नरकावास शतसहास्राणि भवन्तीत्याख्यातं तीर्थकरैरिति, ते खलु नरका अन्तर्भागे वृत्ताकारा यावत् अशुभा नरकेषु वेदना इति । ___ तमःप्रभायाः खलु भदन्त ! पृथिव्याः षोडश सहस्रोत्तरयोजनशतसहस्रबाहल्ययुक्ताया उपरितनभागे कियदवगाह्य अधस्तात् कियवर्जयित्वा मध्ये कियत्ममाणं कियन्ति नरकासशतसहस्राणि प्रज्ञप्तानीति प्रश्नः भगवानाह- हे गौतम ! तमःप्रभायाः खलु पृथिव्याः षोडशसहस्रोत्तर योजनशतसहस्त्र बाहल्ययुक्ताया उपरितनभागे एकं योजऽसहस्रमवगाह्य अधस्तादेकं योजनसहस्र वर्जयित्वा मध्ये चतुर्दशसहस्रोत्तर योजनशतसहस्रे, अत्र खलु तमःप्रभा पृथिव्याः षोडशसहस्रोत्तर योजनशतसहस्रबाहल्ययुक्ताया उपरितनभागे एकं योजनसहस्रमवग ह्य . धस्तादपि एक योजनसहस्र वर्जयित्वा मध्ये नरकावास शतसहस्र, अत्र खलु तमा प्रथिवी नरयिकाणामेकं पञ्चोननरकावासशतसहस्रं भवतीत्याख्यातम ते खलु नरका अन्तमध्ये भागे वृत्ताकारा यावदशुभा नरकेषु वेदना इति ।। अधः सप्तम्याः खलु भदन्त ! पृथिव्या अष्टोत्तरयोजनशतसहस्रबाहल्य युक्ताया उपरितनभागे कियदवगाहा अधस्तात् कियद्वर्जयित्वा मध्ये कियत्पमाणं જીવાભિગમસૂત્ર
SR No.006344
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages918
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy