SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० २ नपुंसकस्वरूपनिरूपणम् ५६७ नपुंसका असंख्येयगुणाः तिर्यग्योनिकनपुंसका अनन्तगुणाः । एतेषां खलु भदन्त ! रत्नप्रभापृ. थिवीनैरयिकनपुंसकानां यावदधः सप्तमपृथिवीनैरयिकनपुंसकानां च कतरे कतरेभ्यो याव द्विशेषाधिका वा? गौतम ! सर्वस्तोकाः अधः सप्तम पृथिवीनैरयिकनपुंसकाः षष्ठपृथिवीनैयिकनपुंसका असंख्येयगुणाः यावद्वितीयपृथिवीनैरयिकनपुंसका असंख्येयगुणाः एतस्या रत्नप्रभायाः पृथिव्याः नैरयिकनपुंसका असंख्येयगुणाः एतेषां खलु भदन्त ! तिर्यग्योनिकनपुसकानां पृथिवीकायिकयावद्वनस्पतिकायिकैकेन्द्रियतिर्यगयोनिकनपुंसकानां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्र यपंचेन्द्रियतियेग्योनिकनपुंसकानां जलचराणां स्थलचराणा खेचराणाच कतरे कतरे भ्यो यावद्विशेषाधिका वा ? गौतम ! सर्वस्तोकाः खेचरतिर्यग्योनिकनपुंसकाः स्थलचरतियंग्योनिकनपुंसकाः' संख्येयगुणाः, जलचरतिर्यग्योनिकनपुंसकाः संख्येयगुणाः, चतुरिन्द्र. यतिर्यग्योनिकनपुंसका विशेषाधिकाः त्रीन्द्रियतिर्यग्योनिक नपुंसका विशेषधिकाः द्वीन्द्रियतिर्यग्योनिकनपुंसकाः विशेषाधिकाः । तेजस्कायिकैकेन्द्रिय तिर्यग्योनिकनपुंसका असंख्येयगुणाः पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः वायुकायिकैकेन्द्रियतिर्यगयोनिकनपुंसका विशेषाधिकाः वनस्पतिकायिकैकेन्द्रियतिर्यग्यो निकनपुंसका अनन्तगुणाः । एतेषां खलु भदन्त ! मनुष्यनपुंसकानां कर्मभूमिकनपुंसकानाम् अकर्मभूमिकनपुंसकानामन्तरद्वोपकानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका अन्तरद्वीपकाकर्मभूमिकमनुष्यनपुंसकाः, देवकुरूत्तरकुर्वकर्मभूमिकाद्वयेऽपि संख्येयगुणाः, एवं यावत्पूर्वविदेहापरविदेहकर्मभूमिकमनुध्यनपुंसकाद्वयेऽपि संख्येयगुणाः ॥ एतेषां खलु भदन्त ! नैरयिकनपुंसकानारत्नप्रभापृथिवीनैरयिकनपुंसकानां यावदधःसप्तम पृथिवीनैरयिकनपुंसकानां तिर्यग्योनिकनपुंसकानामेकेन्द्रिय तिर्यगयोनिकनपंसकानां पृथिवीकायिकैकेन्द्रियतिर्यगूयोनिकनपुंसकानां यावद्वनस्पतिकायिकनपुंसकानां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रिय तिर्यगयोनिकनपुंसकानां जलचराणां स्थलचराणां खेचराणां मनुष्यनपुंसकानां कर्ममूमिकानामकर्मभूमिकानामन्तरद्वीपकानां च कतरेकतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम! सर्वस्तोका अधः सप्तमपृथिवीनैरयिकनपुंसकाः, षष्ठपृथिवीनैरयिकनपुंसका असंख्येयगुणा यावद्वितीयपृथिवीनैरयिकनपुंसका असंख्येयगुणाः, अंतरद्वीपकमनुष्यनपुंसका असंख्येयगुणाः देवकुरूतरकुर्वकर्म भूमिकमनुष्यनपुंसका द्वयेऽपि संख्येयगुणाः, यावविपूर्वदेहापरविदेहकर्मभूमिकमनुष्यनपुं. सकाद्वयेऽपि संख्येयगुणाः। रत्नप्रभापृथिवीनैरयिकनपुंसकाअसंख्येयगुणाः खेचरपञ्चेन्द्रियतिर्थगयोनिकनसका असंख्येयगणाःस्थलचरपञ्चेन्द्रियतिर्यगयोनिकनपंसका असंख्येयगणाः स्थलचरपञ्चेन्द्रियतियग्योनिकनपुंसकाः संख्येयगुणाः, जलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः संख्येयगुणाः, चतुरिन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, त्रीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, द्वीन्द्रियतिर्यगूयोनिकनपुसका विशेषाधिकाः, तेजस्कायिकैकेन्द्रियतिर्यगयोनिकनपुसका असंख्येयगुणाः, पृथिवीकायिकैकेन्द्रियतिर्यगूयोनिकनपुंसका विशेषाधिकाः, वायुकायिकैकेन्द्रियतिर्यगूयोनिकनपुसका विशेषाधिकाः, वनस्पतिकायिकैकेन्द्रिय तिर्यगूयोनिकनपुंसका अनन्तगुणाः ॥ सू० १७॥ इस प्रकार सामान्य और विशेष से नपुंसकों का अन्तर निरूपण कर अब सूत्रकार नारक तिर्यञ्च और मनुष्य नपुंसकों का अल्प बहुत्व कहते हैं( આ પ્રમાણે સામાન્ય અને વિશેષ પ્રકારથી નપુંસકાના અંતરનું નિરૂપણ કરીને હવે સૂત્રકાર નારક, તિર્યંચ અને મનુષ્ય નપુંસકોના અલ્પ બહુપણું કહે છે. જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy