________________
४०४
जीवाभिगमसूत्रे उत्कर्षेण पल्योपमपृथक्त्व पूर्वकोटिपृथक्त्वाभ्यधिकम् ५। तिर्यग्योनिकस्त्रीणां भदन्त ? तिर्यग्योनिस्त्रीति कालतः कियच्चिर भवति ? गौतम ? जघन्येनान्तमुहूर्तम् उत्कर्षेण त्रीनि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि । जलचर्याः जघन्येन अन्तर्मुहूर्त्तम् उत्कर्षेण पूर्वकोटिपृथक्त्वम् । चतुष्पदस्थलचरतिर्यग्योनिकस्त्रिया यथा औधिक्या स्तिर्यग्योनिकास्त्रिया । उरःपरिसर्पभुजपरिसर्पस्त्रीणां यथा जलचरीणाम् । खेचरतिर्यग्रयोनिकस्त्रीणां जघन्येनान्तर्मुहूर्तमुत्कर्षेण पल्योपमस्यास ख्येयभागं पूर्वकोटिपृथक्त्वाभ्यधिकम् । मनुष्यस्त्रीणां भदन्त ! मनुष्यस्त्रीति कालतः कियच्चिर भवति ? गौतम ! क्षेत्रप्रतीत्य जघन्येनान्तर्मुहूर्तम् उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटिपृथक्वाभ्यधिकानि धर्मचरण प्रतीत्य जघन्येन एक समयमुत्कर्षण देशोना पूर्वकोटिः । एवं कर्मभूमिका अपि भरतैरवत्योऽपि, नवर क्षेत्र प्रतीत्य जघन्येनान्तर्मुहूर्तम् उत्कर्षेण त्रीणि पल्योपमानि देशोनपूर्वकोट्यभ्यधिकानि, धर्मचरण प्रतीत्य जघन्येन एक समयम् उत्कर्षेण देशोना पूर्व कोटिः । पूर्वविदेहापर विदेह स्त्रीणां क्षेत्र प्रतीत्य जधन्येनान्तर्मुहूर्तम् उत्कर्षेण पूर्व कोटिपृथक्त्वम् । धर्मचरण प्रतीत्य जधन्येनैकं समयम् उत्कर्षेण देशोना पूर्वकोटिः ॥ अकर्मभूमिकमनुष्यस्त्रीणां भदन्त ? अकर्मभूमिकमनुष्यस्त्रीति कालतः कियच्चिरं भवति गौतम ! जन्म! प्रतीत्य जघन्येन देशोन पल्योपम ल्योपस्यासंख्येयभागेनोनम् उत्कर्षेण त्रीणि पल्योपमानि संहरणं प्रतीत्य जघन्येनान्तर्मुहूर्तम् उत्कर्षेण त्रीणि पल्योपमानि । देशोनया पूर्वकोटयाऽभ्यधिकानि । हैमवतैरण्यवताऽकर्मभूभिकमनुष्यस्त्रीणां भदन्त ! हैम वतैरण्यवताऽकर्मभूमिकमनुष्यस्त्रीति कालतः कियच्चिरं भवति ? गौतम ! जन्म प्रतीत्य जघन्येन देशोनं पल्योपम पल्योपमस्याऽसंख्येयभागेनोनम्, उत्कर्षेण पल्योपमम् । संहरणं प्रतीत्य जघन्येनान्तर्मुहर्तम् उत्कर्षेण पल्योपम देशोनया पूर्वकोटयाऽभ्यधिकम् । हरिवर्ष रम्यकवर्षाऽकर्मभूमिकमनुष्यस्त्रीणां भदन्त ! हरिवर्ष रम्यकवर्षाऽकर्मभूमिकमनुष्य स्त्रीति कालतः कियच्चिर भवति ? गौतम! जन्म प्रतीत्य जघन्येन देशोने द्वे पल्योपमे पल्योपमस्यासंख्येयभागेनोने उत्कर्षेण द्वे पल्योप मम् । सहरण प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षेण द्वे पल्योपमे देशोनपूर्वकोटयभ्यधिके । देवकुरुत्तरकुरूणां, जन्म प्रतीत्य जघन्येन देशोनानि त्रीणि पल्योपमानि पल्योपमस्यासंख्येयभागेनोनानि । उत्कर्षेण त्रीणि पल्योपमानि। संहरणं प्रतीत्य जघन्येनान्तर्मुहूर्तम् उत्कर्षेण त्रीणि पल्योपमानि देशोनया पूर्वकोटया अभ्यधिकानि । अन्तरद्विपकाकर्मभूमिकमनुष्यस्त्रीर्णा भदन्त ! अन्तरद्वीपकाऽकर्म भूमिकस्त्रीति कालतः कियच्चिरं भवति ? गौतम ! जन्म प्रतीत्य जघन्येन देशोन पल्योपमस्यासंख्येयभाग पल्योपमस्यासंख्येयभागेनोनम्
જીવાભિગમસૂત્ર