________________
२०६
जीवाभिगमसूत्रे
समासतो द्विविधाः प्रज्ञप्ताः तद्यथा- पर्याप्ताश्चापर्याप्ताश्च । तेषां खलु भदन्त ! जीवानां कति शरीराणिप्रज्ञतानि? गौतम ! त्रीणि शरीराणि प्रज्ञप्तानि, तद्यथा वैक्रियं तैजसं कार्म णम् तेषां खलु भदन्त ! जीवानां कियन्महती शरीरावगाहना प्रज्ञप्ता ? गौतम ! द्विविधा शरीरावगाहना प्रज्ञता, तद्यथा - भवधारणीया च उत्तरवैक्रियिकी च तत्र खलु या सा भवधारणीया सा जघन्येनाङ्गलस्यासंख्येयं भागम्, उत्कर्षेण पञ्चधनुःशतानि । तत्र खलु या सा उत्तरवैिियकी सा जधन्येनाङ्गुलस्य संख्येयभागमुत्कर्षेण धनुःसहस्रम् । तेषां खलु भदन्त ! जीवानां शरीराण किं संहननानि प्रज्ञप्तानि ? गौतम ! षण्णां संहननानामसंहनिनः नैवास्थीनि नैव शिराः नैव स्नायूनि नैव संहननमस्ति । ये पुद्गला अनिष्टा अकान्ता अप्रिया अशुभा अमनोज्ञा अमनोऽमाः तेषां शरीरसङ्घाततया परिणमन्ति । तेषां खलु भदन्त ! जीवानां शरीराणि किं संस्थितानि प्रज्ञप्तानि ? गौतम ! द्विविधानि प्रज्ञप्तानि तद्यथा भवधारणीयानि उत्तरवैक्रयिकाणि च तत्र खलु यानि तानि भवधारणीयानि तानि हुण्डसंस्थितानि, तत्र खलु यानि तानि उत्तरवैक्रयिकाणि तान्यपि हुण्डसंस्थितानि प्रज्ञप्तानि । चत्वारः कषायाः । चतस्रः संज्ञाः । तिस्रोलेश्याः । पञ्चेन्द्रियाणि । चत्वारः समुद्धाता आदिमाः । संज्ञिनोऽपि असंज्ञिनोऽपि, नपुंसक वेदकाः, षटूपर्याप्तयः षड् अपर्याप्तयः । त्रिविधा दृष्टयः । त्रीणि दर्शनानि । ज्ञानिaise अज्ञानिनोऽपि ये ज्ञानिन स्ते नियमात् त्रिज्ञानिनः, तद्यथा आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनः अवधिज्ञानिनः । ये अज्ञानिन स्ते अस्त्येक के द्वयज्ञानिनः, अस्त्येकके त्र्यज्ञानिः ये च द्वयज्ञानिनस्ते नियमान्मत्यज्ञानिनः श्रुताज्ञानिनश्च ये त्र्यज्ञानिनस्ते नियमान्मत्यज्ञानिनश्च श्रुताज्ञानिनश्च विभङ्गज्ञानिनश्च । त्रिविधो योगः । द्विविध उपयोगः । षङ् दिशि आहारः, 'असणं' - प्रायः कारणं प्रतीत्य वर्णतः कालान् पुद्गलान् यावदाहार माहारन्ति । उपपातस्तिर्यडु मनुष्येभ्यः स्थितिर्जघन्येन दशवर्षसहस्राणि उत्कर्षेण त्रय स्त्रित्सागरोपमाणि । द्विविधा म्रियन्ते । उद्वर्त्तना भणितव्या यत आगताः, नवरं संमूच्छिमेषु प्रतिषेधः । द्विगतिका द्वयागतिकाः परीता असंख्याताः प्रज्ञप्ताः श्रमणायुष्मन् ! ते पते नैरयिकाः ||सू० २० ॥
टीका- 'से किं तं पंचिंदिया' अथ के ते पञ्चेन्द्रियाः, पञ्चेन्द्रियाणां किं लक्षणं कियन्तश्च भेदा इति प्रश्नः, उत्तरयति - 'पंचिंदिया चउच्विहा पन्नत्ता' पञ्चेन्द्रियाश्चतुर्विधाः
अब पञ्चेन्द्रिय जीवों का निरूपण किया जाता है
"से किं तं पंचिंदिया, इत्यादि | सूत्र ||२०|
टीकार्थ - 'से किं तं पंचिदिया' हे भदन्त पञ्चेन्द्रियों का क्या लक्षण है और
हुवे यथेन्द्रिय वोनु निश्णु श्वामां आवे छे.- " से किं तं पंचिदिया"
ઈત્યાદિ
टीडार्थ – “से किं तं पंचिदिया" हे भगवान् पथेन्द्रिय कवोनु शुं सक्षण छे ?
જીવાભિગમસૂત્ર