________________
सुबोधिनी टीका सू. १६३ सूर्याभदेवस्य पूर्वभवजीवप्रदेशिराजवर्णनम् ३७५
____टीका-"तए णं सा" इत्यादि-ततः खलु सा सूर्यकान्ता देवी अन्यदा कदाचित्-कस्मिंश्चित् काले प्रदेशिनो राज्ञः अंतरम्-अवकाश-षष्ठपारणावसरमित्यर्थः, जानाति, अशन-पान-खादिम-सर्ववस्त्र-गन्ध-माल्यालङ्कारेषु-अशनादिसर्ववस्तुषु विषप्रयोग-विषस योग, प्रयुनक्ति-करोति एवं कृत्वा स्नाताय-कृतस्नानाय, यावत्-सुखासनवरगताय-सुनदरूपश्रेष्ठासनोपविष्टाय प्रदेशिने राज्ञे तान् विषसंयुक्तान् अशनपान-खादिम स्वादिम-सर्व वस्त्र-गन्ध-माल्या-ऽलङ्कारान् निसृजति-ददाति । ततः तदन्तरं खलु तस्य प्रदेशिनो राज्ञः तं विषसंयुक्तम् अशनंपानं-खादिमं स्वादिममिति चतुर्विधाऽऽहारम् आहरतः गृह्णतः सतः शरीरे वेदना प्रादुर्भूता-समुत्पन्ना, सा कीदृशी ? इ याह-उज्जवला-दुःखदतया उग्रा सुखलेशरहितेत्यर्थः, विपुला-प्तकलशरी व्यापकत्वाद् विस्तीर्णा, अतएव प्रगाढा-अतिशयिता, कर्कशा कठोरा, यथा कर्कशपाषाणसंघर्षः शरीरसन्धींस्त्रोटयति तथैवात्म प्रदेशांस्त्रोटयन्ती या वेदना जायते साः कर्क शेत्युच्यते, कटुका-अप्रीतिजनिका, परुषा मनसोऽतीव रूक्षत्वोत्पादिका निष्ठुरा-अशकयाप्रतीतिरत्वेन दुर्भ द्या, अत एव चण्डा-रौद्रा, तीवा-तीक्ष्णा दुःखा-दुःखदस्वरूपा, दुर्गा-चिकित्सादुर्गम्या, दुरध्यासा-दुःसहा, एवम्भूता वेदना समुद्भूता, तेन कारणेन स राजा पित्तज्वर परिगतशरीरः-पित्तज्वरेण परिगतम्-आक्रान्त शरीर यस्य स तथा, अत एव दाहव्युत्क्रान्तः-दाहव्याप्तः सन् चापि विहरति-तिष्ठति । ॥ मू० १६३ ॥
मूलम--तए णं से पएसी राया सूरियकताए देवीए अत्ताणं संपलद्धं जाणित्ता सूरियकताए देवीए मणसावि अप्पदुस्समाणे जे
व पोसहसाला तेणेक उवागच्छइ, पोसहसालं पमज्जेइ, उच्चारपासवणभूमि पडिलेहेइ दब्भसंथारगं संथरेइ, दब्भसंथारगं दुरुहइ, पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कहु एवं वयासी-नमोत्थुणं अरहंताणं जाव संप. ताणं नमोत्थुणं केसिस्स कुमारसमणस्स मम धम्मायरियस्स धम्मोवदेसगस्स वंदामि गं भगवंतं तत्थगयं इहगए, पासउ मे भगवं तत्थगए इहगयं-त्तिकटु वंदइ नमसइ, पुस्विपिणं मए केसिस्स कुमारसमणस्स अंतिए थूलपाणाइवाए पच्चक्खाए जाव थूल
શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨