________________
सुबोधिनी टीका सू. १५७ सूर्याभदेवस्य पूर्वभवजीवप्रदेशी राजवर्णनम्
३४५
तत्रैव - तस्मिन्नेव स्थले वन्देत नमस्येत सत्कुर्यात् सन्मानयेत् कल्याणं मङ्गलं दैवतं चैत्यं पर्युपासीत" एतेषां व्याख्या चतुर्थसूत्रतो बोध्या, तथा तं धर्माचार्य प्रासुकै पणीयेन - अचित्तकल्पनीयेन अशन-पान खादिम-खादिमेन - अशनादि चतुर्विऽऽधाहारेण प्रतिलभ्येत् - चतुर्विधाहारं तस्मै दद्यादिति भावः, तथा तं प्रातिहारिकेण - पुनः समर्पणीयेन पीठफलकशय्यासंस्तारकेण उपनिमन्त्रयेत् - तद्ग्रहणे प्रार्थयेत् ३ । एवं तावत प्रथमं प्रदेशिन् ! त मेवम् - अनन्तरोक्तप्रकारां विनयरूपां प्रतिपत्तिं जानासि, तथाऽपि खलु त्वं मम वामवामेन - प्रतिकूलतरेण व्यवहारेण यावत् - यावत्पदेन " दण्डदण्डेन, प्रतिकूलप्रतिकूलेन, प्रतिलोम - प्रतिलोमेन विपर्यासविपर्यासेन" इत्येषां पदानां सङ्ग्रहो बोध्यः, व्याख्याऽपि तत्रैव विलोकनीया, वर्तित्वा-उक्तव्यवहारेण युक्तो भूत्वा मम एतं - मया सह प्रतिकूलव्यवहारजनितम् अर्थम्अपराधम् अक्षामयित्वा यत्रैव श्वेतोंबिका नगरी तत्रैव गमनाय प्राधारयत्निश्चयं कृतवान् । ॥ सू० १५६ ।।
मूलम-तए णं से पएसी रायो केसि कुमारसमणं एवं वयासी एवं खलु भंते ! मम एयारूवे अज्झत्थिए जाव समुप्पज्जित्था - एवं खलु अहं देवाणुप्पियोणं वामंवामेणं जाव वट्टिए तं सेयं खलु मे कल्ले पाउप्पभाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियम्मि अहापंडुरे पभाए रत्तासोगकिंसुय - सुयमुह - गुंजद्ध - रागसरिसे कमलागरनलिणिसंडवोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दियरे तेयस । जलते अंतेउरपरियालसद्धि संपरिवुडे देवाणुप्पिए बंदि - तए नमंत्तिए एयम भुजो भुज्जो सम्म विणएणं खामित्तपत्ति कट्टु जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए ।
तणं से पएसी राया कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलते हट्ट जाव हियए जहेव कूणिए । तहेव निग्गच्छइ, अंतेउरपरियालसद्धि संपरिवुडे पंचविहेणं अभिगमेणं वंदइ नमसइ, एयम भुजो भुजो सम्म विणएणं खामेइ ॥ सू० १५७ ॥
શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨