________________
सुबोधिनी टीका सु. १५२ सूर्याभदेवस्य पूर्वभवजीवप्रदेशिराजवर्णनम् ३१९ गम्भीरा, अथ खलु कोऽपि पुरुषः 'ज्योतिः-अग्नि च दीप च गृहीत्वा तां-कूटाकारशालाम्, अन्तरतः-अत्यन्ताभ्यन्तरे अनुप्रविशति। तस्याः कूटा कारशालाथाः सर्वत-सर्वदिक्ष, समन्तात-सर्वविदिक्ष घननिचितनिरन्तराणिघन-निबिड यथा स्यात्तथा निचितानि-संघातितानि निरन्तराणि-अन्तरर. हितानि तानि तथा, अस्य 'द्वारवदनानी'-त्यनेन सम्बन्धः, पुनः निश्छिद्राणि छिद्रर. हितानि द्वारवदनानि-द्वारमुखानि, पिदधाति-आच्छादयति, तस्याः-कूटाऽऽ काटशालायाः बहुमध्यदेशभागे--अत्यन्तमध्यप्रदेशे तपदीप प्रदीपयेत्-प्रज्वालयेत्, ततः खलु स प्रदीपः तां कूटाकारशालाम् अन्तरन्तः-सर्वान्तर्भागेसर्वान्तर्भागावच्छेदेनेति भावः। अवभासयति-प्रकाशयति, उद्योतयतिउत्कर्षेण प्रकाशयति, तापयति-संतप्तां करोति प्रभासयति-घटपटादि दर्शनया प्रकर्षण प्रकाशमानां करोति, किन्तु वहि:-कूटाकारशालाया बहिभांग नो चैव-नैव अवभासयति उदद्योतयति तापयति प्रभासयति । अथ खलु स पुरुषः तं प्रदीपम् इड्डर केण-महापिटकेन-प्रावरणविशेषेण पिद. ध्यात्-आच्छादयेच्चेत्, ततः खलु सः-पिहितः प्रदीपः तत्-प्रदीपपिधानभूतम् इडुरकम् अन्तः आभ्यन्तरावच्छेदेन अवभासयति किन्तु इडरकस्य बहिः:-बहिःप्रदेश नो चैव-नैव खलु अवभासयति तथा कूटाकारशालायाः बहिः नो चैव अवभासयति, एवम्-अनेन प्रकारेण गोकिलिजेन-गोकिलि जं-गवां भक्ष्यस्थापनकुण्डिका, तेन, तथा पक्षिपिटकेन-पक्षिपिटक-पक्ष्याकारो वंशशिलाकानिर्मितपात्रविशेषः, तेन, तथा गण्डमाणिकाया-गण्डमा. णिका-धान्यमापनिका, तया, आढकेन, अर्धाढ़केन, पस्थकेन, अर्धप्रस्थकेन, कुडवेन, अर्धकुडवेन, आढकादारभ्या कुडवपर्यन्तानि धान्यमापकानि देश. विशेषपसिद्धानि पात्रविशेषाणि तैः प्रदीप पिदध्यादिति पूर्वेण सम्बन्धः, तथा चतुर्भागिकया, अष्टभागिकया पोडशिकया द्वात्रिंशत्कया चतुष्पष्टिकयाचतुर्भागिकादि चतुष्पष्टिकापयर्यन्ता मगधदेशप्रसिद्धा एव रसमापकपात्र. विशेषास्तैः प्रदीप पिदध्यादिति पूर्वेणान्वयः, एवं दीपचम्पकेन-दीपपिधानेन प्रदीप पिदध्यादिति पूर्वेणान्वयः, ततः खलु सः-पिहितः प्रदीपः दीपजैसे दीप का एक कोडे (एक घर) में रख दिया जावे तो वह उस कोठे भर को जहां तक उसका प्रकाश फैल सकता है प्रकाशित करता है और उसी दीपक को यदि मिट्टी के छोटे बर्तन के अन्दर बन्द कर रख दिया દીપકને એક ઘરમાં મૂકવામાં આવે છે તે સંપૂર્ણ ઘરને જયાં સુધી તેને પ્રકાશ જઈ શકે ત્યાં સુધી પ્રકાશિત કરે છે અને તેજ દીપકને જે માટીના નાના વાસણની અંદર મૂકવામાં આવે છે તે તેના અંદરના ભાગને જ પ્રકાશિત કરે છે. વગેરે વગેરે,
શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨