________________
सुबोधिनी टीका सु. १४८ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् २९३ त्वं १ एतासां चतसृणां परिषदां मध्ये कस्य अपराधिनः का-किप्रकारा दण्डनीतिः-दण्डविधानरूपा ज्ञप्ता-कथिता ? । प्रदेशी पाह-हन्त ! जानामि तदेवाह-क्षत्रियपरिषदि-क्षत्रियवर्ग यः खलु कश्चित क्षत्रियः स्ववर्ग परवगें: वा स्य कस्यापि, अपराध्यति-अपराध करोति स खलु हम्तच्छिन्नकःछिन्नहस्तः क्रियते, वा-अथवा पादच्छिन्नकः, अथवा शीर्षच्छिन्नकः, वा. अथवा शूलायितः-शूलारोपितःा वा-अथवा एकाहत्यम्-एकाघातेन, कूटाहत्यपर्वतपातेन जीवितात्-प्राणेभ्यः त्यपरोप्यते- पृर्था क्रयते १। गाथापतिपरिषदि गृहपतिवर्ग यः खलु कश्चिद् गाथापति यस्य कस्यापि अपराध्यति स खलु त्वचा-वृक्षादिच्छलिना वा अथवा वेष्टेन तृणादिनिर्मितरज्ज्वा, वा अथवा पलालेन-प्रसिद्धेन वेष्टयित्वा-परिवेष्टय अग्निकायेन-अग्निना ध्माप्यते-ज्वा. ल्यते २। ब्राह्मणपरिषदि-ब्राह्मणवर्ग यः खलु कश्चिद ब्राह्मणो यस्यकस्यापि अपराध्यति स खलु अनिष्टाभिः-सामान्यतोऽनमिलपिताभिः अकान्ताभिः विशेषतोऽनभिलषिताभिः, यावच्छब्देन- "अपियाभिः-प्रेमवर्जिताभिः-असु. न्दरीभिः” इति संग्राह्यम्. अमनोऽमाभिः मनप्रतिकूलाभिः वाग्भिःचाणीभिः उपालभ्य उपालम्भं दत्त्वा कुण्डिकालान्छनकः-कुण्डिका-कमण्डलु तदाकारक लाञ्छन-तप्तशलाकया ललाटे चिह्न यस्य स तथाभूतः, वा. अथवा शुनकलाञ्छनकः-ललाटे शुनकपदाकारक चिह्न यस्य स तथाभूतः क्रियते, वा-अथवा निर्विषयः-निर्वासितो यथा भवेत्तथा आज्ञाप्यते-'स्वमस्माद्देशान्निर्गच्छ' इत्याज्ञा तस्मै दीयत इति भावः ।३। ऋषपरिषदिऋपिवर्गे यः खलु कश्चित ऋषिर्यस्य कस्यापि अपराध्यति स खलु नात्य निष्टाभि यावत्-यावच्छब्देन-नात्यकान्ताभिः नात्यप्रियाभिः, नात्यमन ज्ञाभिः" इति संग्राह्यम्, नान्यमनोऽमाभिः वाग्भिः-वाणीभिः उपलभ्यतेतस्मै उपालम्भो दीयते इति भावः ४ । केशी कुमारश्रमणः कथयति-हे प्रदेशिन एवं-पूर्वोक्तप्रकारां दण्डनीति तावत्-निश्चयेन त्वं जानासि तथापि त्व मां प्रति वामवामेन- अतिशयवामेन-अतिविरुद्धेन व्यवहारेण. एवं दण्ड. दण्डेन-अतिदण्डरूपेण-दण्डवत्स्तब्धरूपेण-अत्यह रियुक्त नेत्यर्थः प्रतिकूल पतिकूलेन-अप्रतिकूलेन-विपक्षीभूतेनेत्यर्थः प्रतिलोमप्रतिलोमेन-अतिप्रतिलो मेन-अतिविपरीतेनेत्यर्थः विषयसिविपर्यासेन अतिविपर्यासेन-सर्वथा विरुदोनेत्पर्थः, एतादृशेन व्यवहारेण वर्तसे ॥सू० १४८॥
શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨