________________
२१८
___ राजप्रश्नीयसूत्रे न्नोचितोऽयमर्थः इति बोध्यम्, केशीश्रमणः प्राइ-हे प्रदेशिन् ! एक्मेव. इत्थमेव तवापि आर्यिकाऽभवत् कुत्र साऽभवदित्यत्राऽऽह-इव श्वेतविकार्या नगर्या धार्मिकी-यावत्-यावत्पदेन-धर्मानुगादिविशेषण विशिष्टा व्यहरत. सा-आर्यिका खलु मम वक्तव्यतया-मम मतेन सुबहुं यावत्-यावत्पदेन"पुण्योपचयं समज्य कालमासे कालं कृत्वाऽन्यतरेषु देवलोकेषु देवतया उपपन्ना, तस्याः खलु आर्यिकाया: स्वं नप्तक:-पौत्रोऽभवः कीदृशः? इत्यत्राऽऽह-इष्टः यावत्-यावत्पदेन-इष्टकान्तादिविशेषणविशिष्टः उदुम्यर पुष्पमिव दुर्लभः श्रवणतया, किमङ्ग पुनदर्शनत या, एतादृशस्त्वमभूः । सा. आर्यिका खलु मानुष्य लोकमागन्तुमिच्छति किन्तु नैव शक्नोति ।
कुतो न शक्नोति ? इति जिज्ञासायामाह-हे प्रदेशिन् ! चतुर्भि:स्थानः अधुनोपपन्न:-तत्कालोत्पन्नो देवः देवलोकेषु मानुष्यं लोक शीघ्र. मागन्तुमिच्छेद्-अभिलषेत् किन्तु नैव शक्नोति-तत्र प्रथमकारणमाहअधुनोपपन्नो देवो देवलोकेषु कामभोगेषु मूर्छितः-मूछीमधिगतः, गृद्धःविषयोपभोगाभिलाषग्रस्तः, ग्रथितः आसक्तः, अध्युपपन्न:-अत्यासक्तः स खलु मानुष्यान-मानुष्यलोकसम्बन्धिनः भोगान्-शब्दादीन् विषयान् नो आद्रियते नापेक्षते, अतएव नो परिजानाति-विज्ञातु नेच्छति, स खलु देवः कथंचित् मानुष्यं लोकमागन्तुमिच्छेदपि किन्तु देवभोगासक्तया नवागन्तु शक्नोति-नेच्छ तीत्यर्थः १। द्वितीयस्थानमाह-अधुनोपपन्न इत्यारभ्य अध्युपपन्नः' इति पर्यन्तानां विवरण माग्वत्, तस्य-देवस्य मानुष्य-मनु व्यसम्बन्धि प्रेम व्युच्छिन्नं मनुष्यलोकसुखापेक्षयाऽधिकदिव्यसुखेन प्रति. हतं भवति तथा-दिव्यं-स्वर्गलोकसम्बन्धि प्रेम संक्रान्त-हृद्यनुपविष्टं भवति, तेन हेतुना स देव आगन्तु न शक्नोति २। अधुनोपपन्नो देवो दिव्येषु काममोगेषु मूञ्छितो गृद्धो ग्रथितोऽध्यु पपन्नो भवति, तस्य खलु देवस्य एवम्-अनुपद वक्ष्यमाणस्वरूपो भिलाषो भवति तथाहि-इदानीम्-अधुना गमिष्यामि, तथा मुहू तेन घटिकाद्वपा. नन्तरं गमिष्यामि । तस्मिम् काले इह-मर्त्यलोके नरा:-मातापितृपुत्र. कलत्रादयः अल्पायुष, अल्पजीविनः कालधर्मेण-मृत्युना संयुक्ताः भवन्ति, सः देव आगन्तुं न शक्नोति ३॥ अथ चतुर्थ स्थानमाह-"अधुनोपपन्नो देवो दिव्यभोगासक्तो भवति, तस्य देवस्य औदारिका औदारिकशरीरसम्बन्धी गोमृतककले वरादिसमुद्भूतो दुर्गन्धः प्रतिकूलः घ्राणेन्द्रियाननूकूलः, प्रतिलोमः घ्राणानिष्टकरश्चापि भवति । तथाअशुभः सः गन्ध ऊर्ध्वमाप उपरिप्रदेशेऽपि च
શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨