________________
राजप्रश्नीयसूत्रे पूर्ववत्करोति ६। ततः सुधर्मासभाया बहुमध्यदेशभागे १ समागच्छति, समागत्य मणिपीठिकाया २ देवशयनीयस्य ३ च समीपे क्रमेण समागच्छति, प्रमार्जनादि धूपान्तं पूर्वोक्तं सकलं करोति ९। अतः परं सर्व सिद्धायतनवदत्रापि मुखमण्डपादिगतः सर्ववस्तूनां प्रमार्जनादि धूपदानपर्यन्तं सर्व कगेति (१४३)। तत। स उपपातसभा पूर्वद्वारेण समागच्छति, तत्र पूर्ववद् सर्वकृत्वा दक्षिणद्वारे समागच्छति, प्रमार्जनादि धूप दानपर्यन्तं करोति । अत ऊर्च पूर्वनन्दापुष्करिणीपर्यन्तं सुधर्मासभावबोध्यम् । ततः स हृदसमीपे समागच्छति, तत्र तोरणान् त्रिसोपानप्रतिरूपकाणि शालभअिकाः व्यालरूपाणि च प्रमाजयति, दिव्यजलधाराऽभ्युक्षणादिधूपदानपर्यन्तं करोति । ततः स अभिषेकसभायाम् उपागच्छति, तत्र स क्रमेण मणिपीठिकायाः सिंहासनस्य अभिषेकभाण्डस्य बहुमध्यदेशभागस्य च प्रमार्जनादि धूपदानपर्यन्तं करोति। अत ऊवं दक्षिण द्वारादिक्रमेण पूर्वनन्दापुष्करिणीपर्यन्तं सिद्धायतनवद् बोध्यम् । ततःस अलङ्कारिकसभायामुपागच्छति, मणिपीठिकायाः सिंहासनस्य अलङ्कारभाण्डस्य बहुमध्यदेशभागस्य च प्रमार्जनादि धूपदानपर्यन्तं करोति । अतःपरं दक्षिणद्वारादिक्रमेण पूर्वनन्दापुष्करिणीपर्यन्तम् अभिषेकसभावद् बोध्यम् । ततः स व्यवसाय. सभायाम् उपागच्छति, तत्र लोमहस्तकेन पुस्तकरत्नं प्रमार्जयति, दिव्यजलधाराऽम्युक्षणादिधूपदानपर्यन्तं करोति । ततो मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च प्रमार्जनादिधूपदानपर्यन्तं करोति । अत ऊर्ध्वं दक्षिण द्वारादिक्रमेण पूर्वनन्दापुष्करिणीपर्यन्तं सिद्धायतनवद् बोध्यम् । ततःस हदसमीपे समागच्छतिः, तत्र तोरणान् त्रिसोपानप्रतिरूपकाणि शालभत्रिका व्यालरूपाणि च प्रमार्जयति, दिव्यजलधाराभ्युक्षणादि धूपदानपर्यन्तं करोति । ततः स बलिपीठसमीपे समागच्छति बलिसिर्जनं करोति ।। ___ ततःस सूर्याभो देव आभियोगिकान् देवान् शब्दयतिआह्वयति, शब्द यित्वा एवम् वक्ष्यमाणप्रकारेण अवादीत् उक्तवान्-भो देवानुप्रियाः। यूयं क्षिप्रमेव सूर्याभे बिमाने शृङ्गाटकेषु-शृङ्गाटकाकृतिकेषु त्रिकोणस्थानविशेषेषु, त्रिकेषु = मार्गत्रयमिलनस्थानेषु चतुष्केषु = चतुर्मार्गमिलनस्थानेषु, चत्वरेषु= अनेकमार्गमिलनस्थानेषु चतुर्मुखेषु यतश्चतसृष्वपि दिक्षु मार्गाः निस्सरन्ति तेषु महापथेषु राजमार्गेषु प्राकारेषु, अट्टालकेषु प्राकारोपरिवर्ति स्थानविशेषेषु, चरिकासु-अष्टहस्तप्रमाणेपु प्राकारान्तरालमार्गेषु, द्वारेपु-प्रासादादीनां द्वारेषु, गोपुरेषु-पुरद्वारेषु, तोरणेषु-द्वारसंबन्धिषु भागेषु आरामेषु-क्रीडास्थानेषु
શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧