________________
सुबोधिनी टीका. सू. ७४ स्तूपवर्णनम् अनेकविधमण्यात्मिकाः रत्नाः नानाविधरत्नमय्यो विविधाः- अनेकप्रकारिकाः शाखाः प्रशाखाश्च येषां ते-नानामणिमयरत्नविविधशाखा प्रशाखाः अनेकविधमणिरत्नमयविविधशाखाप्रशाखाप्रयुक्ता इत्यर्थः । तथा-वैडूर्याणि-वैडूर्यरत्नमयानि पत्राणि येषां ते वैडूर्यपत्राः, वैडूर्यरत्नमयपत्रयुक्ता इत्यर्थः । तथा-तपनीयानि स्वर्णमयानि पत्रवृन्तानि-पत्रबन्धनानि येषां ते-तपनीयपत्रवृन्ताः, स्वर्णमयपत्रबन्धनयुक्ता इत्यर्थः । ततःपदत्रयस्य कर्मधारये,-नानामणिमयरत्नविविधशाखाप्रशाखेत्यादिघटितं पदं बोध्यम् । तथा जाम्बूनदरक्तमृदुकसुकुमारप्रबालपल्लववराङ्कुरधराः -जाम्बूनदाः = जाम्बूनद- नामकविशिष्टस्वर्णमयाः, रक्ताः-रक्तवर्णाः मृदुकाः कोमला:-मृदुकत्वेन दृश्य-मानाः सुकुमाराः कोमल. स्पर्शाः प्रवालाः = ईषदुन्मीलितपत्रभावा: पल्लवाः = परिपूर्णप्रथमपत्रभावरूपाः वराङ्कुराः = प्रथममुद्भिद्यमाना अङ्करास्तेषां धराः = धारकाः । तथा-विचित्र मणिरत्नसुरभिकुसुमफलभरभृतनतशालाः -विचित्राणाम् = अनेक प्रकाराणां मणीनां रहनानां च यानि सुरभीणि सुगन्धीनि-कुसुमानि-पुष्पाणि फलानि च. तैः भरम् अतिशयं यथा स्थात्तथा भृताः परिपूर्णाः अत एव नताः= नम्रीभूताःशालाः स्कन्धोद्गतशाखा येषां ते तथा-अनेक विधमणिरत्नमयसुगन्धित पुष्पफलभारावनतशाखायुक्ता इत्यर्थः। तथा अधिकं यथा स्यात्तथा नयनमनोनिवृतिकराः नयनमनसोः सुखकराः, तथा-अमृतरससमरसफलाःअमृतस्य यो रसः तस्य समतुल्यो रसो येषां तानि तथाभूतानि फलानि येषां ते तथा-अमृतरससमरयुक्त फलयुक्ता इत्यर्थः । तथा-सच्छायाःछायया सहिताः-चाकचिक्ययुक्ताः, अत एव-सप्रभाः प्रभायुक्ता, अतएवसश्रीकाः-शोभासम्पन्नाः, सोद्योताः-उद्योतेनःवस्त्वन्तरप्रकाशनेन सहिताः, सोद्योताः-वस्त्वन्तरप्रकाशनसामर्थ्ययुक्ताः, प्रासादीयाः दर्शकजनमनःप्रमोदजनकाः दर्शनीयाः प्रक्षणीयाः, अभिरूपाः सर्वकालरमणीया, प्रतिरूपाः= को सुखकर हैं. इनके फल अमृत रस के तुल्य रस से भरे हुए हैं ये सब चैत्यवृक्ष चाकचिक्यरूप छायावाले हैं प्रभायुक्त है शोभासंपन्न हैं उर्यात वस्त्तवन्तर (अन्यवस्तु ) को प्रकाशित करनेवाले प्रकाशसे-सहित हैं. दर्शक जन के मन को प्रमोदजनक हैं, दर्शनीय-प्रक्षणीय है अभिरूप-सर्वकाल रमणीय हैं और प्रतिरूप-सर्वोत्तम है. इन चैत्यवृक्षों के ऊपर आठ आठ આપનારી છે. એમનાં ફળ અમૃતરસ જેવાં રસથી ભરેલાં છે. આ બધા વૃક્ષ ચાકચિય રૂ૫ છાયાવાળા છે, પ્રભાયુક્ત છે. ભાસંપન્ન છે. ઉદ્યોત-બી જી વસ્તુને પ્રકાશિત કરનારા પ્રકાશથી યુક્ત છે. જેનારાઓના મનને પ્રસુતિ કરનારા છે, દર્શનીય છે, પ્રેક્ષણીય છે, અભિરૂ૫-સવકાળ રમણીય છે અને પ્રતિરૂપ–સ -
શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧