________________
४५८
__ राजप्रश्नीयसूत्रे भूमिभागः प्रज्ञप्तः तद्यथा-वनषण्डविहीनो यावद् वैमानिका देवाश्च देव्यश्च आसते यावद्विहरन्ति । अयं भावः-'आलिंगषुक्खरेइ वा' इत्यारभ्य 'जाव विहरंति' इत्यन्तः पाठोऽष्टषष्टितम (६८) सूत्रोक्तो वनषण्डवर्णनरहितः समस्तोत्र ग्राहयः । तदर्थोऽपि तत्रैव विलोकनीय इति । तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे=अतिशयमध्यप्रदेशे अत्र खलु महद्-विशालम् एकम् =उपकारिकालयनम्-उपकरोति-उपष्टभ्नाति-धारयति प्रासादावतंसकादीन या सा उपकारिका उपकार्या-विमानस्वामिसम्बन्धिप्रासादावतंसकपीठिकेत्यर्थः, सा लयनमिव गृहमिव तत् प्रज्ञप्तम्=कथितम् । तदुपकारिकालयनम् एकं योजनशतसहस्रम्-एक लक्षयोजनानि आयामविष्कम्भेण-दैर्येण विस्तारेण च, तथा-त्रीणियोजनशतसहस्राणि षोडश सहस्राणि द्वे च सप्तविंशति योजनशते= सप्तविंशत्यधिक-द्विशताधिक-षोडशसहस्रोत्तराणि त्रीणिलक्षाणि (३१६२२७ ) योजनानि, त्रीन् क्रोशान् अष्टाविंशतिं च धनुश्शतम् अष्टाविंशत्यधिकैकशतसंख्यकानि धनंषि त्रयोदश च अङ्गुलान् , अ‘गुलं च किंचिद्विशेषाधिक परिक्षेपेण-परिधिना । योजनम् एकं योजनं बाहल्येन स्थौल्येन चास्ति । तत्कीदृशम् ? इत्याह-सर्वजाम्बूनदमयम्=सर्वदेशावच्छेदेन स्वर्णमयम् , अच्छम्= आकाशस्फटिकरत्नवदतिनिर्मलम् , यावत्पदेन-सण्हे घडे मढे नीरये निम्मले निप्पंके निकंकडच्छाये सप्पभे सउज्जोये पासाईये दंसणिज्जे अभिरूवे ' एषामर्थश्चतुर्दश (१४) सूत्रटीकायां विलोकनीयः । प्रतिरूपं सर्वोत्तम चास्तीति ॥ सू० ६९ ॥
टीकार्थ मूलार्थ के जैसा ही है " उपकारिका-उपकरोति-उपष्टभ्नाति-धारयति प्रासादावतंसकादीन् या सा उपकारिका-उपकार्या-विमा. नस्वामिसम्बन्धिप्रासादावतंसकपीठिका" इस व्युत्पत्ति के अनुसार जो प्रासा दावतंसकादिकों को धारण करती है वह उपकारिका-प्रासादावतंसकों की पीठिका है. यह पीठिका लयन-गृह के समान है. अतः यह उपकारिकालयन है ॥ सू० ६९ ॥
t-सा सूत्रने से भूमाथ मा छे. 'उपकारिका-उपकरोतिउपष्ट नाति-धारयति प्रासादावतंसका दिन् या सा उपकारिका-उपकार्या-विमानस्वामिसम्बन्धि प्रासादावतंसकपीठिका' । व्युत्पत्ति भुमरे प्रासाहात स पोरेने ધારણ કરે છે તે ઉપકારિકા-પ્રાસાદાવત સકેની પીઠિકા છે, આ પીઠિકાલયન ગૃહ જેવું છે. તેથી તે ઉપકારિકાલયન છે, જે સૂટ ૬૯
શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧