________________
श्री-मेवाडदेश-पावनकर्तृणां श्रीश्रमणसंघीयपण्डित-मुनिश्रीमाँगीलालजी महाराजानां तच्छिष्यस्य हस्तिमुनेश्व सम्मतिपत्रम्
२०१५ वर्षीय-वर्षावास-दीपावली
राजकरेड़ा (राजस्थान) __पुरतो जिनवाणीरसिकसजनानां पूज्यश्री १००८ श्रीघासीलालजी-महाराजविरचितजैनागमव्याख्याऽध्ययनजन्मनो ऽस्मत्स्वान्ते परिमितिमप्रा वतो निर्भरानन्दस्यानुभवं प्रसन्नमनसा कतिपयैः शब्दैनिर्दिशावः । ____ अस्माकमहोभाग्येन विराजमानैर्विद्यया वयसा च वृद्धैः सज्जनशिरोमणिभिः पूज्यपादवीमलङ्कुर्वद्भिः श्रीमज्जैनाचार्य-घासीलालजी-महाराजैःप्रणीतया व्याख्यया समलङ्कृतोजैनागमो दृष्टिगोचरीकृतः । मनोहारिणी संस्कृतटीका हिन्दी-गुर्जरभाषानुवादद्वयं च बलान्मानसं समाकर्षति । पूज्यश्रीविरचितजैनागमव्याख्यानसहस्रभानुनाऽऽवयो नागमरहस्याज्ञान तमस्संहतिरपहृता, हृत्पद्मं च प्रफुल्लितम् ।
___ आसीदभावो बहोः कालाज्जैनागमेषु स्थानकवासी संप्रदायाभिमत संस्कृत ल्याख्यानस्य, परतन्त्रश्चासीदद्यावधि स्थानकवासिजैनसमुदायः । परं परमकृपालुना श्रीमताऽऽचार्यप्रवेरणाsनवरतं परिश्रम्य जैनागमेषु स्वसंप्रदायपरिपोषिकां टीका विधाय सकलोऽपि स्थानकवासिजैनसंघः स्वावलम्बीकृतः । श्रीमजैनाचार्यकृतेयमुपकृतिः सकलस्थानकवासिजैनहृदयेषु वज्रलेपायिता भविष्यतीति मन्यावहे।
अनादिधोराज्ञानतमसि पततां जनानां त्राणोपायः केवलं जिनभाषितमेवेति सर्वविदितमेव । तत्र सर्वजनकल्याणकामनया पूज्यश्रीचरणैर्या टीका विरचिता सा सर्वेषामपि सिद्धिप्रदा विजयप्रदा कल्याणप्रदा सन्मार्गप्रदर्शिका चास्तीति सुदृढोऽस्मविश्वासः । अतोऽहं सर्वानपि जैनबन्धून प्रोत्साहयामि, यत्ते स्वहितमभिसंधाय श्रीमत्पूज्यजैनाचार्यविरचितव्याख्यासाहाय्येन जैनागमहृदयं सम्यगवगम्य तन्निर्दिष्टमार्गेण स्व-स्वजीवनं सफलयन्तो लोकद्वयं साधयन्त्वित्यलभतिविस्तरेण ।
अन्ते च शासनाधीशमभ्यर्थयावहे यदस्मदीयाचार्यप्रवराः शतायुषो निरामयाश्च भवन्त्विति
इत्थं पूज्यश्री १००८ श्रीघासीलालजी-महाराज-विरचित-जैनागमव्याख्यायां स्वसम्मतिं प्रदर्शयतःश्रीश्रमणसंधीव पण्डितमुनि माँगीलाल:,
__ तच्छिश्यो हस्ती मुनिश्च