________________
॥ श्री ॥ जैनागमवारिधि- जैनधर्मदिवाकर- जैनाचार्य-पू-य-श्री आत्मारामजीमहाराजानां पञ्चनद-(पंजाब )स्थानामनुत्तरोपपातिकसूत्राणा
मर्थबोधिनीनामकटीकाथामिदम्
सम्मतिपत्रम्. आचार्यवर्यैः श्री घासीलालमुनिभिः सङ्कलिताअनुत्तरोपपातिकसूत्राणामर्थबोधिनीनाम्नी संस्कृतवृत्तिरुपयोगपूर्वकं सकलाऽपि स्वशिष्यमुखेनाऽश्रावि मया, इयं हि वृत्तिर्मुनिवरस्य वैदुष्यं प्रकटयति । श्रीमद्भिर्मुनिभिः सूत्राणामर्थान् स्पष्टयितुं यः प्रयत्नो व्यधायि तदर्थमनेकशो धन्यवादानहन्ति ते । यथा चेयं वृत्तिः सरला सुबोधिनी च तथा सारवत्यपि । अस्याः स्वाध्यायेन निर्वाणपदमभीप्सुभिर्निर्वाणपदमनुसरद्भिर्ज्ञान-दर्शन-चारित्रेषु प्रयतमानैर्मुनिभिः श्रावकैश्च ज्ञानदर्शनचारित्राणि सम्यक् सम्प्राप्याऽन्येऽ यात्मानस्तत्र प्रवर्तयिष्यन्ते ।
आशासे श्रीमदाशुकविर्मुनिवरो गीर्वाणवाणीजुषा विदुषां मनस्तोषाय जैनागमसूत्राणां सारावबोधाय च अन्येषामपि जैनागमानामित्थं सरलाः सुस्पष्टाश्च वृत्तीविधाय तांस्तान् सूत्रग्रन्थान् देवगिरा सुस्पष्टयिष्यति ।
अन्ते च "मुनिवरस्य परिश्रमं सफलयितुं सरलां सुबोधिनी चेमां सूत्रवृत्ति स्वाध्यायेन सनाथयिष्यन्त्यवश्यं सुयोग्या हंसनिभाः पाठकाः ।" इत्याशास्ते--
विक्रमाब्द २००२ श्रावणकृष्णा प्रतिपदा
लुधियाना.
उपाध्याय आत्मारामो जैनमुनिः।।
ऐसेही :
मध्यभारत सैलाना-निवासी श्रीमान रतनलालजी डोसी श्रमणोपासक जैन लिखते हैं कि :
श्रीमान की की हुई टीकावाला उपासकदशांग सेवक के दृष्टिगत हुवा, सेवक अभी उसका मनन कर रहा है। यह ग्रन्थ सर्वांग-सुन्दर एवम् उच्चकोटि का उपकारक है।