________________
श्रीवीतरागाय नमः ॥
जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालजी-महाराज-विरचित
विपाकचन्द्रिकाटीकासमलङ्कृतम् श्रीविपाकसूत्रम्
[ मङ्गलाचरणम् ]
मालिनीवृत्तम्परमगुणगभीरं तीर्णसंसारतीरं
जिनघनसमीरं कोपवह्नः सुनीरम् । क्षपितमिह शरीरं कार्मणं यत् करीरं,
भविजनवरहीरं नौमि तं धीरवीरम् ॥१॥
[वसन्ततिलकावृत्तम् ] आनन्तराऽऽगमसुधारसनिझरेण,
___संसिच्य धर्मतरुमत्र शुभालवालम् । स्वर्गापवर्गसुखराशिफलं प्रदाय,
मोक्षं गतं तमिह गौतममानमामि ॥२॥
[ द्रुतविलम्बितत्तम् ] कमलकोमलम पदद्विकं, विमलबोधिदबोधविबोधकम् । मुखलसत्सहदोरकवस्त्रिकं, गुरुवरं प्रणमामि विशोधकम् ॥ २ ॥
(अनुष्टुब्बृत्तम् ) विपाकश्रुतसूत्रस्य, भावार्थानां प्रकाशिका । विपाकचन्द्रिका टीका, घासीलालेन तन्यते ॥ ४ ॥
શ્રી વિપાક સૂત્ર