SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अर्थबोधिनि टीका वर्ग ३ धन्यनामाणगारस्य मुख्यतावर्णनम् ११७ समवस्मृतः। परिषनिर्गता। श्रेणिको निर्गतः । धर्मकथा । परिषत् पतिगता ततः खलु स श्रेणिको राजा श्रमणस्य भगवता महावीरस्यान्तिके धमे श्रुत्वा निशम्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा, एवमवादीत् एषां भदन्त ! इन्द्रभूतिपमुखानां चतुर्दशानां श्रमणसाहस्रीणां कतमोऽनगारो महादुष्करकारकश्चैव महानिर्जराकश्चैव । एवं खलु श्रेणिक ! एषामिन्द्रभूतिप्रमुखानां चतुर्दशानां श्रमणसाहस्रीणां धन्योऽनगारो महादुष्करकारकश्चैव महानिर्जराकश्चैव । तत्केनार्थेन भदन्त ! एवमुच्यते-एपां यावत्साहस्रीणां धन्योऽनगारो महादुष्करकारकश्चैव महानिर्जराकश्चैव। एवं खलु श्रेणिक ! तस्मिन् काले तस्मिन् समये काकन्दी नाम नगर्यभवत्, उपरि प्रासादावतंसके विहरति । ततोऽहमन्यदा कदाचित् पूर्वानुपूर्व्या चरन् , ग्रामानुग्रामं द्रवन् यत्रैव काकन्दी नगरी, यत्रैव सहस्राम्रवणमुद्यानं तत्रैवोपागतः, यथा प्रतिरूपमवग्रहमवगृह्य संयमेन यावद् विहरामि । परिषनिर्गता, तथैव यावत् उपशोभमान उपशोभमान स्तिष्ठति, तत्तेनार्थेन श्रेणिक ! एवमुच्यते - एषां चतुर्दशानां श्रवणसाहस्रीणां धन्योऽनगारो महादुष्करकारकत्रैव महानिर्जराकश्चैव । ततः श्रेणिको राजा श्रमणस्य भगवतो महावीरस्यान्तिके एतमर्थ श्रुत्वा निशम्य हृष्टतुष्ट० श्रमणं भगवन्तं महावीरं त्रिकृत्व आदिक्षिणप्रदक्षिणां करोती, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा यत्रैव धन्योऽनगारस्तत्रैवोपागच्छति उपागत्य धन्यमनगारं त्रिःकृत्व आदक्षिणप्रदक्षिणां करोति, कृत्वा वन्दते नमस्करोति, वन्दित्वा नमस्कृत्य एवमवादीत्-धन्योऽसि त्वं देवानुप्रिय ! सुपुण्यः, सुकृतार्थः, सुकृतलक्षणः, सुलब्धो देवानुपिय ! त्वया मानुष्यकं जन्मजीवितफलम् , इति कृत्वा वन्दते नमस्करोति, वन्दित्वा नमस्कृत्य यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिकृत्वो वन्दते नमस्करोति, वन्दित्वा नमस्कृत्य यस्या दिशः पार्दुभूतस्तामेव दिशं प्रतिगतः ॥सू०३९॥ टीका-'तेणं कालेणं' इत्यादि । तस्मिन् काले तसमिन् समये राज अब यहा समस्त मुनियोंमें धन्यमुनिकी मुख्यता बताई जाती है-' तेणं कालेणं' इत्यादि । उस काल उस समय में राजगृह नामक नगर और गुण હવે અહિં સર્વે મુનિમાં ધન્ય મુનિની મુખ્યતા બતાવવામાં આવે છે'तेणं कालेणं प्रत्याहि. તે કાળ તે સમયમાં રાજગૃહ નામે નગર અને ગુણશિલક નામે ચૈત્ય (ઉદ્યાન) શ્રી અનુત્તરોપપાતિક સૂત્ર
SR No.006337
Book TitleAgam 09 Ang 09 Anuttaropapatik Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages218
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anuttaropapatikdasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy