________________
भगवती सूत्रे
जीवाः कथमुत्पद्यन्ते ? गौतम ! स यथानामकः प्लवकः प्लवमानः, एवं यथोपपातशते यावत् नो परप्रयोगोत्पद्यन्ते । ते खल्ल भदन्त ! जीवाः किमात्मयशसा उत्पद्यन्ते आत्माऽयशसोत्पद्यन्ते ? गौतम ! नो आत्मयशसोत्पद्यन्ते आत्मायशसोपयन्ते । यदि आत्मायशसोत्पद्यन्ते । किमात्मयश उपजीवन्ति, आत्मायश उपजीवन्ति ? गौतम ! नो आत्मयशसोपजीवन्ति आत्मायशसोपजीवन्ति । यदि आत्मायश उपजीवन्ति किं सलेश्या अलेश्या: ? गौतम ! सलेश्याः नो अलेश्याः । यदि सलेश्याः । किं सक्रिया अक्रियाः ? गौतम ! सक्रियाः, नो अक्रियाः । यदि सक्रिया रतेनैव भवग्रहणेण सिद्धयन्ति यावदन्तं कुर्वन्ति ? नायमथः समर्थः । राशियुग्मकृतयुग्मासुरकुमाराः खलु भदन्त ! कुत उत्पद्यन्ते ? यथैव नैरयिका स्तथैव निरवशेषम् । एवं यावत् पञ्चेन्द्रियतिर्यग्योनिकाः । नवरं वनस्पतिकायिका यावत् असंख्येया वा अनन्तावोत्पद्यन्ते, शेषम् एवमेव । मनुष्या अपि एत्रमेव यावत् नो आत्मयशसा उत्पद्यन्ते आत्मायशसा उत्पद्यन्ते । यदि आत्मायशसा उत्पद्यन्ते किमात्मयश उपजीवन्ति आत्मायश उपजीवन्ति ? गौतम ! आत्मयशोऽपि उपजीवन्ति आत्मायशसोऽपि उपजीवन्ति । यद्यात्मयश उपजीवन्ति किं सलेश्याः अलेश्या ? गौतम | सलेश्या अपि अश्या अपि । यदि अलेश्याः किं सक्रिया अक्रियाः ? गौतम ! नो सक्रिया अक्रियाः । यदि अक्रियाः तेनैव भवग्रहणेण सिद्धयन्ति यावत् अन्तं कुर्वन्ति ? हन्त सिद्धयन्ति यावदन्तं कुर्वन्ति । यदि सलेश्याः किं सक्रिया अक्रियाः ? गौतम ! सक्रियाः, नो अक्रियाः । यदि सक्रिया स्तेनैव भवग्रहणेन सिद्धयन्ति यावदन्तं कुर्वन्ति ? गौतम ! अस्त्येकके तेनैव भवग्रहणेन सिद्धयन्ति यावदन्तं कुर्वन्ति, अरुश्येकके नो तेनैव भवग्रहणेन सिद्ध्यन्ति यावदन्तं कुर्वन्ति । यद्यात्मायश उपजीवन्ति किंसलेश्या अलेश्या: ? गौतम ! सलेश्या नोडलेश्याः । यदि सश्याः किं सक्रिया अक्रियाः ? गौतम ! सक्रिया नो अक्रियाः । यदि सक्रिया स्तेनैव भवग्रहणेन सिद्धयन्ति यावदन्तं कुर्वन्ति । नायमर्थः समर्थः । वानव्यन्तरज्योतिष्कवैमानिका यथा नैरयिकाः । तदेवं भदन्त ! तदेव भदन्त । इति ॥ मू०१ ॥ ॥ एक चत्वारिंशत्तमे राशियुग्मशत के प्रथमोद्देशकः समाप्तः । टीका- ' कइ णं भंते ! रासिजुम्मा पन्नत्ता ?' कति खल भदन्त ! राशियुग्माः शतक ४१ प्रथम उद्देशक
'कइ णं भंते ! रासिजुम्मा पन्नत्ता' इत्यादि सूत्र १॥
७००
એકતાળીસમા શતકના પ્રારંભ—
પહેલે ઉદ્દેશ 'कहि ण' भंते ! रासिजुम्मा पण्णचा' धत्याहि
શ્રી ભગવતી સૂત્ર : ૧૭