________________
प्रमैयचन्द्रिका टीका श०२५ उ.७०३ कालादिद्वारनिरूपणम् यथा बकुशः, एवं छेदोपस्थापनिकोऽपि । नवरं जन्मसदभावं च प्रतीत्य चतुष्यपि प्रतिभागेषु नास्ति, संहरणं प्रतीत्य अन्यतरस्मिन् प्रतिभागे भवेत् शेषं तदेव । परिहारविशुद्धिकः पृच्छा गौतम ! अवसर्पिणीकाले वा भवेत् उत्सर्पिणीकाले वा भवेत् नोअवसर्पिणी नो उत्सर्पिणीकाले नो भवेत् । यदि अवसर्पिणीकाले भवेत् यथा पुलाकः । उत्सर्पिणीकालेऽपि यथा पुलाकः । सूक्ष्मसंपरायोऽपि यथा निर्ग्रन्थः एवं यथाख्यातोऽपि (१२) सामायिकसंयतः खलु भदन्त ! कालगत: सन् कां गतिं गच्छति ? गौतम ! देवगतिं गच्छति । देवगति गच्छन् किं भवन वासिषु उत्पद्येत वानव्यन्तरेत्पद्येत ज्योतिष्कघृत्पद्येत वैमानिकपुत्पधेत ? गौतम ! नो भवनवासिषूत्पद्येत यथा कषायकुशीलः । एवं छेदोपस्थापनिकोऽपि । परिहारविशुद्धिको यथा पुलाकः, सूक्ष्मसंपरायो यथा निर्ग्रन्थः। यथाख्यातः पृच्छा, गौतम ! एवं यथाख्यातसंयतोऽपि यावत् अजघन्यानुत्कर्षणानुत्तर. विमाने त्पद्येत अस्त्येकका सिद्धयति यावदन्तं करोति । सामायिकसंयतः खल भदन्त । देवलो के पू-पद्यमानः किमिन्द्रतयोत्पद्यते ? पृच्छा गौतम ! अविराधनं प्रतीत्य एवं यथा कषायकुशीलः । एवं छेदोपस्थापनीयोऽपि परिहारविशुद्धिको यथा पुलाकः शेषाः यथा निग्रन्थः । सामायिकसंयतस्य खलु भदन्त ! देवलोकेपू. त्पद्यमानस्य कियत्कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन द्वे पल्योपमे उत्कर्षेण प्रयस्त्रिंशत्सागरोपमाणि एवं छेदोषस्थापनीयोऽपि । परिहारविशुद्धिकस्य पृच्छा गौतम ! जघन्येन द्वे पल्योपमे उस्कर्षेण अष्टादश सागरोपमाणि शेषाणां यथा निर्ग्रन्थस्य (१३)। सामायिकसंयतस्य खलु भदन्त । कियन्ति संयमस्थानानि प्रज्ञप्तानि एवं यावत् परिहारविशुद्धिकस्य । सूक्ष्मसंपरायसंयतस्य पृच्छा गौतम ! असंख्येयानि अन्त मुहूर्तकानि संयमस्थानानि प्रज्ञप्तानि। यथाख्यातसंयतस्य पृच्छा गौतम ! एकमजघन्यानुकर्ष संयमस्थानं प्रज्ञप्तम् । एतेषां खलु भदन्त ! सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकसक्ष्मसंपराययथाख्यातसंयतानां संयमस्था. नानां कतरे कतरेभ्यो यावद्विशेषाधिका वा ? गौतम ! सर्वस्तोकं यथाख्यात. संयतस्य एकमजघन्यानुत्कर्ष संयमस्थानम् सूक्ष्मसंपरायसंयतस्य अन्तोमुहूर्त कानि संयमस्थानानि असंख्येयगुणानि परिहारविशुद्धिकसंयतस्य संयमस्थानानि असंख्येयगुणानि सामायिकसंयतस्य छेदोपस्थपनीयसंयतस्य च एतयोः खल संयमस्थानानि द्वयोरपि तुल्यानि असंख्येयगुणानि (१४) सू०३ ।
टीका-'सामायिकसंजए णं भंते !' सामायिकसंयतः खलु भदन्त ! कि ओसप्पिणीकाले होज्जा' किमवसर्पिणीकाले भवेत् अथवा 'उस्सप्पिणीकाले होज्जा' उत्सर्पिणीकाले भवेत् 'नो औसपिणी नो उत्सपिणीकाले होज्जा' नो
શ્રી ભગવતી સૂત્ર : ૧૬