________________
प्रमेयचन्द्रिकाटीका श०२० उ०५ २०१ पुद्गलस्य वर्णादिमत्वनिरूपणम् ५४१
छाया-परमाणुपुद्गलः खलु भदन्त ! कतिवर्णः कतिगन्धः कतिरसः कतिस्पर्शः प्रज्ञप्ता ? गौतम ! एकवर्णः, एकगन्धः, एकरसो द्विस्पर्शः प्रज्ञप्तः, तद्यथा-यदि एकवर्णः स्यात् कालः (कृष्णः) स्यात् नीलः, स्यात् लोहितः, स्याद् हारिद्रः, स्यात् शुक्लः । यदि एकगन्धः स्थात् सुरभिगन्धः स्यात् दुरभिगन्धः, यदि एकरसः स्यात् तिक्तः स्यात् कटुकः स्यात् कषायः, स्यात् आम्लः स्यात् मधुरः, यदि द्विस्पर्शः स्यात् शी तश्च स्निग्धश्व१, स्यात् शीतश्च रूक्षश्च२, स्यात् उष्णश्च स्निग्धश्च३, स्यात् उष्णश्च रूक्षश्च ४ । द्विपदेशिकः खलु भदन्त ! स्कन्धः कतिवर्ण:०४ एवं यथा अष्टादशशतके षष्ठोद्देशके यावत् स्यात चतुस्पर्शः प्रज्ञप्तः। यदि एकवर्णः स्यात् कालो यावत् स्यात् शुक्ला, यदि द्विवर्णः स्यात् कालश्च नीलश्च १, स्यात् कालश्च लोहितश्च २, स्यात् कालश्च हारिद्रश्च३, स्यात् कालश्च शुक्लश्व ४, स्यात् नीलश्चलोहितश्च५, स्यात् नीलश्च हारिद्रश्व६, स्यात् नीलश्च शुक्लश्च७, स्यात् लोहितश्च हारिद्रश्च८, स्यात् लोहितश्च शुक्मश्च९, स्यात् हारिद्रश्च शुक्लश्व१०, एवमेते द्विकसंयोगे दश भङ्गाः । यदि एकगन्धः स्यात सुरभिगन्धः १, स्यात् दुरभिगन्धश्च २। यदि द्विगन्धः स्यात् सुरभिगन्धश्च दुरभिगन्धश्च । रसेषु यथा वर्णेषु । यदि द्विस्पर्शः स्यात् शीतश्च स्निग्धश्च एवं यथैव परमाणुपुद्गलः । यदि त्रिस्पर्शः सर्वः शीतो देशः स्निग्धः देशो रूक्षः १, सर्वः उष्णः देशः स्निग्धो देशो रूक्षः २, सर्वः स्निग्धो, देशः शीतो देश उष्णः ३, सौं रूक्षो देशः शीतः देशे उष्णः ४ । यदि चतुः स्पर्शः देशः शीतो देश उष्णो देशः स्निग्धः देशो रूक्षः १, एते नव भङ्गाः स्पशेषु । त्रिमदेशिकः खलु भदन्त ! स्कन्धः कतिवणे:० एवं यथा अष्टादशशते षष्ठोद्देशे यावत् चतुःस्पर्शः प्रज्ञप्तः । यदि एकवर्णः स्यात् कालः यावत् शुक्लः ५। यदि द्विवर्णः स्यात् कालश्च स्यात् नीलश्च १ स्यात् कालश्च नीलश्च २, स्यात् कालाश्च नीलाश्च ३, स्यात् कालश्च लोहितश्च १ स्यात् कालश्च लोहिताश्च २ स्यात् कालाश्च लोहितश्च ३, एवं हारि. द्रेणापि समं भङ्गास्त्रयः ३, एवं शुक्लेनापि समं भङ्गास्त्रयः ३, स्थात् नीलश्च लोहितश्च अत्रापि भङ्गास्त्रयः ३, एवं हारिद्रेणापि समं भङ्गास्त्रयः। एवं शुक्लेनापि समं भङ्गास्त्रयः, स्थात् लोहितश्व हारिद्रश्च भङ्गास्त्रयः ३, एवं शुक्लेनापि समं भास्वयः, स्यात हारिद्रश्च शुक्लश्व भङ्गास्त्रयः, एवं सवे ते दशद्विकसंयोगा भङ्गास्त्रिंशद्भवन्ति यदि त्रिवर्णः स्यात् कालश्च नीलश्च लोहितश्च १, स्यात् कालश्च नीलच हारिद्रश्च २, स्यात् कृष्णश्च नीलश्च शुक्लश्च ३, स्यात् कालश्च लोहितश्च हारिद्रश्च ४, स्यात् कालश्च लोहितश्व शुक्लश्च ५, स्थात् कालश्च हारिद्रश्च शुक्लश्च ६, स्यात् नीलश्च लोहितश्च हारिद्रश्च ७, स्पात् नीलश्च लोहितश्च शुक्लश्च ८, स्यात् नीलश्च हारिद्रश्च शुक्लश्च ९, स्यात् लोहितश्व हारिद्रश्च शुक्लश्च १० ।
શ્રી ભગવતી સૂત્ર : ૧૩