________________
प्रमेयचन्द्रिका टीका श० १५ उ० १ सु० ५ गोशालकवृत्तान्तनिरूपणम् ५१३ मासाणं संखित्तविउलतेयलेस्ले भवइ। तए णं से गोसाले मंखलिपुत्ते ममं एयम, सम्म विणए णं यडिसुणेइ ॥सू०५॥ ___ छाया-ततः खलु अहं गौतम ! गोशालेन मङ्खलिपुत्रेण सार्द्ध यत्रैव कूर्मग्राम नगरं तत्रैव उपागच्छामि, ततः खल्लु तस्य कूर्मग्रामस्य नगरस्य बहिः वेश्यायनो नाम बालतपस्वी षष्ठषष्ठेन अनिक्षिप्तेन तपः कर्मणा ऊर्ध्वबाहू प्रगृह्य प्रगृह्य मराभिमुखः आतापनभूमौ आतापयन् विहरति, आदित्य तेजस्तापिताश्च ताः षट्पदिकाः सर्वतः समन्तात् अभिनिःस्रवन्ति, प्राणभूतजीव सचदयार्थतया च खलु पतिताः पतिताः तत्रैव तत्रैव भूयो भूयः प्रत्यवरोहयति । ततः खलु स गोशालो मङ्खलिपुत्रो वेश्यायनं बालतपस्विनं पश्यति, दृष्ट्वा मम अन्तिकात् शनैः शनैः प्रत्यवष्वष्कते, प्रत्यववष्षय यत्रैव वेश्यायनो बालतपस्वी तत्रैव उपागच्छति, उपागत्य वेश्यायनं बालतपस्विनम् एवम् अवादीत्-किं भवान् मुनिः, मुनिका, उताहो युका शय्यातरकः ? ततः खलु स वेश्यायनो बालतपस्वी गोशालस्य मङ्खलिपुत्रस्य एतम) नो आद्रियते, नो परिजानाति, तूष्णीकः सतिष्ठते । ततः खलु स गोशालो मङ्खलिपुत्रो वेश्यायनं बालतपस्विनं द्वितीयमपि तृतीयमपि एवम्
आदीव-किं भवान् मुनिः, मुनिकः यावत्-उताहो यूका शय्यातरकः ? ततः खलु स वेश्यायनो बालतपस्वी गोशालेन मङ्खलिपुत्रेण द्वितीयमपि तृतीयमपि एवमुक्तः सन् आशुरक्तो यावत् मिषमिषायमाणः आतापनभूमितः प्रत्यवरोहति, पत्यवरुह्य तेजः समुद्घातेन समवहन्ति, समवहत्य सप्ताष्ट पदानि प्रत्यवष्वष्कते, प्रत्यवष्वक्य गोशालकस्य मङ्खलिपुत्रस्य वधाय शरीकात् तेजो निःसृजति । ततः खलु अहं गौतम ! गोशालस्य मङ्खलिपुत्रस्य अनुकम्पनाथतायै वेश्यायनस्य बालतपस्विनस्तेजः प्रतिसंहरणार्थतायै । अत्र खलु अन्तरा अहं शीतलिका तेजो. लेश्यां निःसृजामि, यया सा मम शीतलिकया तेजोलेश्यया वेश्यायनस्य बालतपस्विनः सा उष्णा तेजोलेश्या प्रतिहता । ततः खलु स वेश्यायनो बालतपस्वी मम शीतलिकया तेजोलेश्यया ताम् उष्णां तेजोलेश्यां प्रतिहतां ज्ञात्वा गोशालस्य महलिपुत्रस्य शरीरकस्य किश्चिदू आबाधां वा, व्याबाधां वा, छविच्छेदं वा अक्रियमाणां दृष्ट्वा तामुष्णां तेजोलेश्यां प्रतिसंहरति, प्रतिसंहृत्य, माम् एवमवादीत-तत् गतमेतद् भगवन् ! तद् गतमेतद् भगवन् ! ततः खलु गोशालो मङ्खलि. पुत्रो माम् एवमादीत्-कथं भदन्त ! एक्यूकाशय्यातरको युष्मान् एवमवादीतत् गतमेतद् भगवन् ! तत् गतमेतद् भगवन् ! इति ? ततः खलु अहं गौतम ! गोशालं मङ्खलिपुत्रम् एवम्-अवादिषम्-त्वं खलु गोशाल ! वेश्यायनं बालतपस्विनं पश्यसि, दृष्ट्वा ममान्तिकात् तूष्णीं तूष्णीम् प्रत्यवष्यकते प्रत्यवष्वक्य यत्रैव
भ० ६५
શ્રી ભગવતી સૂત્ર : ૧૧