SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे विधिना पतिलामयिष्यामीति तुष्टः, शेषं तदैव यावत् तृतीयं मासक्षमणम् उपसंपद्य खलु विहराभि, ततः खलु अहं गौतम ! तृतीयमासक्षमणपारणके तन्तुवायशालातः प्रविनिष्कामानि, प्रविनिष्क्रम्य तथैव यावद् अटन सुनन्दस्य गाथापतेः गृह मनुपविष्टः, ततःखलु स सुनन्दः गाथापतिः, एवं यथैव विजयगाथापतिः, नवरं मां सर्वकामगुणितेन भोजनेन पतिलाभयति, शेषं तदेव यावत्-चतुर्य मासक्षमणम् उपसंपद्य खलु विहरामि, तस्याः खलु नालन्दाया बाह्यायाः अदूरसामन्ते अत्र खलु कोल्लाको नाम सनिवेश आसीत् , सन्निवेशवर्णकः, तत्र खलु कोल्लाके सन्निवेशे बठुलो नाम ब्राह्मणः प्रतिवसति, आढयो यावत् अपरिभूतः ऋग्वेद या सुपरिनिष्ठितश्चापि आसीत , ततः खलु स बहुलो ब्राह्मणः कार्तिक चातुर्मासिकप्रतिपदि विपुलेन मधुघृतसंयुक्तेन परमान्नेन ब्राह्मणान् आचामितवान् , ततः खलु अहं गौतम ! चतुर्थमासक्षमणपारणके तन्तुवायशालातः पतिनिक्रामामि, प्रतिनिष्क्रम्य नालन्दा बाह्यां मध्यमध्येन निर्गच्छामि, निर्गत्य यत्रैव कोल्लाका सन्निवेशस्तत्रैव उपागच्छामि, उपागत्य कोल्लाके सन्निवेशे उच्चनीचमध्यमानि यावत् अटन् बहुलस्य ब्रह्मणस्य गृहमनुपविष्टः, ततः खलु स बहुलो ब्राह्मणो माम् आयान्तं तथैव यावत्-माम् विपुलेन मधुघृतसंयुक्तेन परमान्नेन प्रतिलाभयिष्यामीति तुष्टः, शेषं यथा विजयस्य यावत् बहुलो ब्राह्मणः, बहुलो ब्राह्मण इति । ततः खलु स गोशालो मंखलिपुत्रो मां तन्तुवायशालायाम् अपश्यन् राजगृहे नगरे साभ्यन्तरबाह्ये मम सर्वतः समन्तात् मार्गणगवेषणं करोति, मम कुत्रापि, श्रुति वा, क्षुति वा, प्रवृत्ति वा अलभमानो यत्रैव तन्तुवायशाला तत्रैव उपागच्छति, उपागत्य शाटिकाश्च पाटिकाश्च कुण्डिकाश्च उपानहश्च चित्रफलकं च ब्राह्मणाय आयच्छति, आयम्य सोत्तरोष्ठं मुण्डं कारयति, कारयित्वा तन्तुवायशालातः प्रतिनिष्क्रायति, प्रतिनिष्क्रम्य नालन्दा बाह्यां मध्यमध्येन निर्गच्छति, निर्गत्य यत्रैव कोल्लाकसनिवेशस्तत्रैव उपागच्छति । ततः खलु तस्य कोल्लाकस्य सनिवेशस्य बहिः बहिः, बहुजनोऽन्योन्यस्य एवमाख्याति, यावत् प्ररूपयति-धन्यः खलु देवानुभियाः ! बहुलो ब्राह्मणः, तदेव यावद् जीवितफलं बहुलस्य ब्राह्मणस्य बहुलस्य ब्राह्मणस्येति । ततः खल्ल तस्य गोशालस्य मंखलिपुत्रस्य बहुजनस्य अन्तिकम् एतमर्थं श्रुत्वा निशम्य अयमेतद्रूपः अध्यात्मिको यावत् समुदपद्यत-यादृशः खलु मम धर्माचार्यस्य धर्मोपदेशकस्य श्रमणस्य भगवतो महावीरस्य ऋद्धिः, द्युतिः, यश, बलम् , वीर्यम् , पुरुषकारपराक्रमो लब्धः प्राप्तः अभिसमन्वागतो नो खलु अस्ति तादृशः खलु अन्यस्य कस्यचित् तथारूपस्य श्रमणस्य वा, ब्राह्मणस्य वा ऋद्धिः, धुतिः, यावत् पराक्रमो શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy