SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २९२ भगवतीसूत्रे दसहिं सामाणियसाहसीहिं जाव विहरइ। सेवं भंते ! सेवं भंते! ति ॥सू०३॥ ___ चउद्दसे सए छट्टो उदेसो समत्तो। छाया-यदा खलु भदन्त ! शक्रो देवेन्द्रो देवराजो दिव्यान् भोगभोगान् भोक्तुकामो भवति, तत्कथमिदानी प्रकरोति ? गौतम ! तदैव खलु स शक्रो देवेन्द्रो देवराजः एकं महत् नेमिपतिरूपकं विकुर्वति, एकं योजनशतसहस्रम् आयामविष्कम्भेण, त्रीणि योजनशतसहस्राणि यावत् अङ्गुिलं च किश्चिद् विशेषाधिकम् परिक्षेपेण, तस्य खलु नेमिप्रतिरूपकस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, यावद्-मणीनां स्पर्शः, तस्य खलु नेमिप्रतिरूपकस्य बहुमध्य देशभागे तत्र खलु महान्तम् एकं प्रासादावतंसकं विकुर्वति पञ्चयोजनशतानि ऊर्ध्वम् उच्चत्वेन, सार्द्धद्वे योजनशते विष्कम्भेण, अभ्युद्गतोच्छिनादिवर्णका, यावत् प्रतिरूपम्, तस्य खलु पासादावतंसकस्य उल्लोचः पद्मलताभक्तिचित्रो यावत्-प्रतिरूपः, तस्य खलु पासादावतंसकस्यान्तो बहुसमरमणीयो भूमिभागो यावद् मणीना स्पर्शः, मणिपीठिका अष्टयोजनिका यथा वैमानिकानाम् , तस्याः खलु मणिपीठिकाया उपरि महत् एकम् देवश नीयम् विकुर्वति, शयनीयवर्णको यावत् पतिरूपकम्, तत्र खलु स शक्रो देवेन्द्रो देवराजः अष्टाभिः अग्रमहिषीभिः सपरिवाराभिः, द्वाभ्यां च अनीकाभ्यां नाटयानीकेन च गन्धर्वानीकेन च सार्द्ध महताहतनाटय यावद दिव्यान् भोगभोगान् भुञ्जानो विहरति, यदा ईशानो देवेन्द्रो देवराजो दिव्यान् यथा शक्रस्तथा ईशानोऽपि निरवशेषम्, एवं सनत्कुमारोऽपि, नवरम् प्रासादावतंसकः षट्योजनशतानि ऊर्ध्वम् उच्चत्वेन, त्रीणि योजनशतानि विष्कम्भेण, मणिपीठिका तथैव अष्टयोजनिका, तस्याः खलु मणिपीठिकायाः उपरि, अत्र खलु महत एक सिंहासनं विकुर्वति सपरिवारं भणितव्यम्, तत्र खलु सनत्कुमारो देवेन्द्रो देवराजो द्वासप्तत्या सामानिकसाहसिकैः यावत् चतसृभिः द्वासप्ततिमिः आत्मरक्षकदेवसाहस्रिकैश्च बहुभिः सनत्कुमारकल्पवासिमिः वैमानिकैः देवैस्सार्द्ध संपरिवृतो महता यावत् विहरति, एवं यथा सनत्कुमारस्तथा यावत्आरणः, अच्युतः, नवरं यो यस्य परिवारः स तस्य भाणितव्यः, प्रासादोच्चत्वं यत् स्वेषु स्वेषु कल्पेषु विमानानामुच्चत्वम् , अद्धाद्ध विस्तारो यावत्-अच्युतस्य नवयोजनशतानि ऊध्र्वम् उच्चत्वेन, अद्धेयश्चमानि योजनशतानि विष्कम्भेण, तत्र खलु गौतम ! अच्युतो देवेन्द्रो देवराजो दशभिरसामानिकसाहसिकः यावत विहरति. शेषं तदेव, तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ सू० ३ ॥ इतिचतुर्दशशतके षष्ठोदेशका समाप्तः ॥ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy