SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ ७२२ भगवतीसूत्रे " रुत्वं शीघ्रमागच्छन्ति एवं यथा मथमशतके यावत् व्यतिव्रजन्ति । भवसिद्धिकत्वं खलु भदन्त ! जीवानां किं स्वभावतः, परिणामतः, ? जयन्ती ! सर्वेऽपि खलु मवसिद्धिकाः जीवाः सेत्स्यन्ति । यदि भदन्त । सर्वे भवसिद्धिकाः जीवाः सेत्स्यन्ति तदा खलु भव सिद्धिकविरहितो लोको भविष्यति ? नायमर्थः समर्थः, तत् केन 'पुनः खलु अर्थेन भदन्त ! एवमुच्यते- सर्वेऽपि खलु भवसिद्धिकाः जीवाः सेत्स्यन्ति न चैव खलु भवसिद्धिकविरहितो लोको भविष्यति ? जयन्ति ! तत् यथानाम सर्वाकाशगीस्यात्, अनादिका अनवदया परीता (परिमिता ) परिद्वता, सा खलु परमाणुपुङ्गलमात्रैः खण्डैः समये समये अपह्रियमाणा अपह्रियमाणा अनन्ताभिः उत्सर्पिण्यवसर्पिणीमिः अपह्रियते, नो चैव खलु अपहृता स्यात्, तत् तेनार्थेन जयन्ति । एवमुच्यते - सर्वेऽपि खलु भवसिद्धिकाः जीवाः सेत्स्यन्ति, नो चैव खलु भवसिद्धिकविरहितो लोको भविष्यति । सुप्तत्वं भदन्त । साधु, जागरिकत्वं साधु ? जयन्ति ! अस्त्येकेषां जीवानां सुप्तत्वं साधु, अस्त्येकेषां जीवानां जागरिकत्वं साधु, तरकेनार्थेन भदन्त । एवमुच्यते अस्त्येकेषां यावत् साधु ? जयन्ति ! ये इमे जीवाः अधार्मिकाः, अधर्मानुगाः, अधर्मिष्ठाः, अधर्माख्यायिनः, अधर्मप्रलोकिनः, अधर्मप्ररञ्जनाः, अधर्मसमुदाचाराः, अधर्मेणैव वृत्तिं कल्पयन्तो विहरन्ति एतेषां खलु जीवानां सुप्तत्वं साधु, एते खलु जीवाः सुताः सन्तो नो बहूनां प्राणभूतजीवसत्रानां दुःखापनायैव, यावत् परितापनायें वर्तन्ते, एते खलु जीवाः सुप्ताः सन्तः आत्मानं वा, परं वा, तदुभयं वा, नो वहीभिः अधा कीभिः संयोजनाभिः संयोजयितारो भवन्ति एतेषां जीवानां सुप्तस्वं साधु । जयन्ति । ये इमे जीवाः धार्मिकाः, धर्मानुगाः, यावत् धर्मेणैव वृत्तिं कल्पयन्तो विहरन्ति एतेषां खलु जीवानां जागरिकत्वं साधु, एते खलु जीवाः जाग्रतः सन्तो बहूनां माणानां यावत् सच्चानाम्, अदुःखापनायै यावत- अपरितापनायै वर्तन्ते, ते खलु जीवाः जाग्रतः आत्मानं वा, परं वा, तदुभयं वा, बहीभिः धार्मिकीभिः संयोजनाभिः संयोजयितारो भवन्ति, एते खलु जीवाः जाग्रतः धर्मजागरिकतया आत्मानं जागरयितारो भवन्ति, एतेषां खलु जीवानां जागरिकत्वं साधु, तत् तेनार्थेन जयन्ति । एवमुच्यते-अस्त्ये केषां जीवानां सुप्तवं साधु अस्स्येकेषां जीवानां जागरिकत्वं साधु । बलिकत्वं भदन्त ! साधु, दुर्बळक साधु ? जयन्ति । अस्त्येकेषां जीवानां बलिकत्वं साधु, अस्त्येकेषां जीवानां दुर्बलकत्वं साधु, तत् केनार्थेन भदन्त ! एवमुच्यते यावत साधु ? जयन्ति ! ये इमे जीवाः अधार्मिकाः यावत्-विहरन्ति एतेषां खलु जीवानां दुर्बलिकत्वं साधु, एते खलु जीवाः एवं यथा सुप्तस्य तथा दुर्बलिकस्य वक्तव्यता भणितव्या, बलि શ્રી ભગવતી સૂત્ર : ૯ -
SR No.006323
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages760
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy