SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे सोमयुगलप्रवराणि, एवं वटकयुगलानि, एवं पट्टयुगलानि, एवं दुकूलयुगलानि, अष्टौ श्रियः, अष्टौ हियः, एवं धृतिः, कीर्तीः, बुद्धीः, लक्ष्मीः, अष्टौ नन्दानि, अष्टौ भद्राणि, अष्टौ तलान् , तलपवरान् , सर्वरत्नमयान् निजस्वरभवनकेतून् , अष्टौ ध्वजान् , ध्वजप्रवरान् , अष्टौ व्रजान , बजप्रवरान् , दशगोसाहसिकेण व्रजेण, अष्टौ नाटकानि नाटकमवराणि, द्वात्रिंशद्वद्धेन नाटकेन, अष्टौ अश्वान , अश्वप्रवरान् । सर्वरत्नमयान् श्रीगृहपतिरूपकान् , अष्टौ हस्तिनः, हस्तिप्रवरान् सर्वरत्नमयान् श्रीगृहमतिरूपकान , अष्टौ यानानि, यानपवराणि, अष्टै युग्यानि, युग्यप्रवराणि, एवं स्यन्दमानिकाः, एवं गिल्लीः, थिल्ली:, अष्टौ विततयानानि, विततयानपवराणि, अष्टौ स्थान् , पारियानिकान् , अष्टौ रथान् सांग्रामिकान् , अष्टौ अश्वान् , अश्वपवरान् , अष्टौ हस्तिनः, हस्तिमवरान् , अष्टौ ग्रामान् , ग्रामप्रवरान् , दशकुल. साहस्रिकेण ग्रामेण, अष्टौ दासान, दासप्रवरान् , एवं चेव दासीः, एवं किंङ्करान्, एवं कन्चुकिनः, एवं वर्षधरान , एवं महत्तरकान् , अष्टौ सौवर्णिकान् अवलम्बनदीपान , अष्टौ रुप्यमयान् अवलम्बनदीपान , अष्टौ सुवर्णरुप्यमयान् अवलम्बनदीपान् , अष्टौ सौवर्णिकान् उत्कञ्चनदीपान् , एवं चैव त्रीनपि, अष्टौ सौवर्णिकान् स्थालान् , अष्टौ रुप्यमयान्, अष्टौ सुवर्णरुप्यमयान् स्थालान , अष्टौ सौवर्णिकीः पात्रीः, अष्टौ रुप्यमयीः पात्रीः अष्टौ सुवर्णरुप्यमयीः पात्रीः, अष्टौ सौवर्णिकान् स्थासकान् , अष्टौ रुप्यमान् स्थासकान् , अष्टौ सुवर्णरुप्यमयान् स्थासकान् , अष्टौ सौवर्णिकानि मङ्गलानि, अष्टौ रुप्यमयानि मङ्गलानि, अष्टौ सुवर्णरुप्यमयानि मङ्गलानि, अष्टौ सौवर्णिकीः तालिकाः अष्टौ सौवर्णिकीः कलाचिकाः, अष्टौ सौवर्णिकीः औडकाः, अष्टौ सौवणिकीः अवपाक्याः, अष्टौ सौवर्णिकान् पाद. पीठान् , अष्टौं रुप्यमयान् पादपीठान् , अष्टौ सुवर्णरूप्यमयान पादपीठान्, अष्टौ सौवर्णिकीः भिसिकाः, अष्टौ सौवर्णिकीः करोटिकाः, अष्टौ सौवर्णिकान पल्यङ्कान् , अष्टौ सौवर्णिकीः प्रतिशय्याः, अष्टौ हंसासनानि, अष्टौ क्रौञ्चासनानि, एवं गरुडासनानि, उन्नतासनानि, प्रणतासनानि, दीर्घासनानि, भद्रासनानि, पक्षासनानि, मकरासनानि, अष्टौ पद्मासनानि, अष्टौ दिक्स्वस्तिकासनानि, अष्टौ तैलसमुद्कानि, यथा राजप्रश्नीये यावत्-अष्टौ सर्पपसमुद्गकानि, अष्टौ कुब्जाः यथा औपपातिके यावत् अष्टौ पारसिकीः, अष्टौ छत्राणि, अष्टौ छत्रधारिणीः बेटीः, अष्टौ चामराणि, अष्टौ चामरधारिणीश्चेटीः, अष्टौ तालयन्तानि, अष्टौ ताल. वृन्तधारिणीश्चेटीः, अष्टौ करोटिकाधारिणीश्चेटीः, अष्टौ क्षीरधात्रीः, यावत् अष्टौ अधात्री, अष्टौ अङ्गमर्दिकाः, अष्टौ उन्मदिकाः, अष्टौ स्नापिकाः, अष्टौ प्रसाधिका:, अष्टौ वर्णकपेषिकाः, अष्टौ चूर्णकपेषिकाः, अष्टौ कोष्ठागारिकीः, अष्टौ द्रवकारिणीः, શ્રી ભગવતી સૂત્ર : ૯
SR No.006323
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages760
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy