SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे कालस्य, नवरं सदृशनामिकाः राजधान्यः, सिंहासनानि च, शेषं तदेव। चन्द्रस्य खलु भदन्त ! ज्योतिषि केन्द्रस्य ज्योतिषिराजस्य पृच्छा, आर्याः ! चतस्रः अग्नमहिष्यः प्रज्ञप्ताः, तद्यथा-चन्द्रमभा १, ज्योत्स्नाभा २, अचिौली ३, प्रभंकरा ४,। एवं यथा जीवाभिगमे ज्योतिषिकोद्देशकस्तथैव । सूर्यस्यापि, सूर्यप्रभा १, आतपाभा २, अर्चिमाली ३, प्रभंकरा ४, । शेष तदेव, यावत् नो चैव खलु मैथुन प्रत्ययिकम् । अङ्गारस्य खलु भदन्त ! महाग्रहस्य कति अग्रमहिष्यः ? पृच्छा, आर्याः ! चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-विजया १, वैजयन्ती २, जयन्ती ३, अपराजिता४,। तत्र खलु एकैकस्या देव्याः शेष तदेव यथा चन्द्रस्य, नवरम्अङ्गारवरिष्ठे विमाने, अङ्गारके सिंहासने शेषं तदेव, यावत् व्यालकस्यापि। एवम् अष्टाशीतेरपि महाग्रहाणां भणितव्यम् , यावत् भावकेतोः, नवरम्-चरिष्ठ कानि, सिंहासनानि च सदृशनामकानि, शेषं तदेव । शक्रस्य खलु भदन्त ! देवेन्द्रस्य देवराजस्य पृच्छा, आर्याः! अष्टौ अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-पमा १, शिवा २, श्रेया ३, अजूः ४, अमला ५, अप्सरा ६, नवमिका ७, रोहिणी ८, तत्र खलु एकैकस्याः देव्याः षोडश षोडश देवीसहस्राणि परिवारः प्रज्ञप्तः। प्रभुः खलु ताभ्यः एकैका देवी अन्यानि षोडश देवीसहस्राणि परिवार विकुर्वितुम् एवमेव सपूर्वापरेण अष्टाविंशत्युत्तरं देवीशतसहस्रम् परिवारः, तदेतत् तुडिकम् । प्रभुः खलु भदन्त ! शक्रो देवेन्द्रो देवराजः, सौधर्मे कल्पे सौधर्मवरिष्ठके विमाने सभायां सुधर्मायाम् , शके सिंहासने तुडिकेन सार्द्धम् शेष यथा चमरस्य, नवर परिवारो यथा मोकोदेशके । शक्रस्य खलु देवेन्द्रस्य देवराजस्य सोमस्य महाराजस्य कति अग्रमहिष्यः ? पृच्छा, आर्याः! चतस्रः अग्नमहिष्यः प्रज्ञप्ताः, तद्यथारोहिणी १, मदना २, चित्ता ३, सोमा ४,। तत्र खलु एकैकस्याः देव्याः शेष यथा चमरलोकपालानाम् , नवरम् स्वयंप्रभे विमाने, सभायां, सुधर्मायां सोमे सिंहासने शेष तदेव, एवं यावत् वैश्रवणस्य, नवरं विमानानि यथा तृतीयशतके। ईशानस्य खलु भदन्त ! पृच्छा, आर्याः ! अष्टमहिष्यः प्रज्ञप्ताः, तद्यथा-कृष्णा १, कृष्णराजिः २, रामा ३, रामरक्षिता ४, वसुः ५, वसुगुप्ता ६, वसुमित्रा ७, वसु. न्धरा ८,। तत्र खलु एकैकस्याः देव्याः शेष यथा शक्रस्य,। ईशानस्य खलु भदन्त ! देवेन्द्रस्य सोमस्य महाराजस्य कति अग्रमहिष्यः ? पृच्छा, आर्याः ! चतस्रः अग्रमहिध्यः प्रज्ञप्ताः, तद्यथा-पृथिवी १, राजिः २, रजनी ३, विद्युत् ४, । तत्र खलु एकैकस्या देव्याः शेषं यथा शक्रस्य लोकपालानाम् । एवं यावत् वरुणस्य, नवरं विमानानि यथा चतुर्थ शतके, शेषतदेव यावत् , नो चैव खलु मैथुनप्रत्ययिकम् । तदेवं भदन्त । तदेवं भदन्त ! इति यावत् विहरति ॥ सू० २ ॥ શ્રી ભગવતી સૂત્ર: ૯
SR No.006323
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages760
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy