SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे " छाया - चमरस्य खलु भदन्त ! असुरेन्द्रस्य असुरकुमारराजस्य सोमस्य महाराजस्य कति अग्रमहिष्यः प्रज्ञप्ताः ? आर्याः ! चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-कनका १, कनकलता २, चित्रगुप्ता ३, वसुन्धरा ४, । तत्र खलु एकैकस्या doer: एकैकं देवसहस्रम् परिवारः प्रज्ञप्तः । प्रभुः खलु ताभ्य एकैका देवीअन्यत् एकैक देवीसहस्रं परिवारं विकुर्वितुम्, एवमेव सपूर्वापरेण चत्वारि देवी सहस्राणि तदेतत् तुडिकम् । प्रभुः खलु भदन्त ! चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य सोमो महाराजः सोमायां राजधान्यां सभायां सुधर्मांयां, सोमे सिंहासने तुडिकेन, अवशेषं यथा चमरस्य, नवरं परिवारो यथा सूर्याभस्य, शेष तदेव, यावत् नो चैत्र खल मैथुनवस्वयिकम् । चमरस्य खलु भदन्त । यावत् राजस्य यमस्य महाराजस्य कति अग्रमहिष्यः १ एवमेव, नवरं यमायां राजधान्यां शेषं यथा सोमस्य । एवं वरुणस्यापि, नवरं वरुणायां राजधान्याम् । एवं वैश्रवणस्यापि, नवरं वैश्रवणायां राजधान्यां शेषं तदेव यावत् नो चैव खल मैथुनमत्ययिकम् । वलेः खलु भदन्त ! वैरोचनेन्द्रस्य पृच्छा, आर्याः ! पञ्च अग्रमहिष्यः प्रज्ञप्तः, तद्यथा - शुंभा १, निशुंभा २, रम्भा ३, निरम्भा ४, मदना ५, तत्र खलु एकैकस्या देव्याः अष्ट अष्ट शेषं यथा चमरस्य, नवरं बलिचश्चायां राजधान्याम्, परिवारो यथा मोकोद्देशके, शेष तदेव यावत् नो चैव खलु मैथुनप्रत्ययिकम् । बलेः खलु भदन्त ! वैरोचनेन्द्रस्य, वैरोचनराजस्य सोमस्य महाराजस्य कति अग्रमहिष्यः प्रज्ञप्ताः ? आर्याः ! चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा - मेनका १, सुभद्रा २, विजया ३, अशनिः ४, । तत्र खलु एकैकस्याः देव्याः शेषं यथा चमरसोमस्य एवं यावत् वैश्रवणस्य। धरणस्य खलु भदन्त ! नागकुमारेन्द्रस्य नागकुमारराजस्य कति अग्रमहिष्यः प्रज्ञप्ताः ? आर्याः ! षट् अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा - इला १, शुक्रा २, सतारा ३, सौदामिनी ४, इन्द्रा ५, घनविद्युत् ६, सत्र खलु एकैकस्याः देव्या षट् षट् देवीसहस्राणि परिवारः प्रज्ञप्तः । प्रभुः खलु ताभ्यः एकैका देवी अन्यानि पट् पट् देवीसहस्राणि परिवारं विकुर्वितुम् ? एवमेव सपूर्वापरेण षट्शत् देवी सहस्राणि तदेतत् तुडिकम् । प्रभुः खलु भदन्त ! धरणः शेषं तदेव, नवरम् धरणायां राजधान्याम्, धरणे सिंहासने स्वकः परिवारः, शेष ं तदेव । धरणस्य खलु भदन्त ! नागकुमारेन्द्रस्य कालवालस्य लोकपालस्य महाराजस्य कति अग्रमहिष्यः प्रज्ञप्ताः ? आर्याः ! चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथाअशोका १, विमला २, सुप्रभा ३, सुदर्शना ४, । तत्र खलु एकैकस्याः अवशेष यथा चमरस्य लोकपालानाम् । एवं शेषाणां त्रयाणामपि । भूतानन्दस्य खलु भदन्त ! पृच्छा ? आर्याः ! षट् अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-रूपा १, रूपांशा २, सुरूपा ३, १५४ શ્રી ભગવતી સૂત્ર : ૯
SR No.006323
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages760
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy