________________
प्रमेषचन्द्रिकाटी० २०९३०३३ सू०१३ महावीरवाक्यं प्रतिजमाले रथज्ञानि० ५७५
छाया-नारालु स जमालिः अनगारः अन्यदा कदाचित् यत्रैव श्रमणो भगवान महावीरस्तत्रैव उपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं बन्दते, नमस्यति, वन्दिता नमस्यित्वा एवम् आदीत्-इच्छामि खलु भदन्त ! युष्माभिः अभ्यनुज्ञातः सन् पश्चभिः अनगारशतैः सार्द्धम् बाह्यं जनपदविहारं विहर्तुम् । ततः खलु स श्रमणो भगवान महावीरो जमाले अनगारस्य एतमर्थम् नो आदियते, नो परिजानाति, तूष्णीकः संतिष्ठते, ततः खलु स जमालिरनगारः श्रमणं भगान्तं महावीरं द्वितीयमपि तृतीयमपि एवम् आदीत्-इच्छामि खलु भदन्त ! युष्माभिरभ्यनुज्ञातः सन् पञ्चभिरनगारशतैः सार्द्धम् यावत् विहर्तुम् । ततःखलु स श्रमणो भगवान् महावीरो जमालेग्नगारस्य द्वितीयमपि तृतीयमपि एतमर्थ नो आद्रियते यावत् तूष्णीकः संतिष्ठते । ततःखलु स जमालिरनगारः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा नमस्यित्वा श्रमणस्य भगवतो महावीरस्य अन्तिकोत् बडुशालकात् चैत्यात् प्रति निष्क्रमति प्रतिनिष्क्रय पञ्चभिरनगारशतैः सार्धम् बाह्यं जनपदविहरं विहरति । तस्मिन् काले तस्मिन् समये श्रावस्ती नाम नगरी आसीत् वर्णकः कोष्ठकं चैत्यम्, वर्णकः, यावत् वनखण्डस्य, तस्मिन् काले तस्मिन् समये चम्पानाम नगरी आसीत्, वर्णमः, पूर्णभद्रं चैत्यम् , वर्णकः, यावत् पृथिवी शिलापट्टकः । ततःखलु स जमालिरनगारः अन्यदा कदाचित् पञ्चभिरनगारशतैः सार्द्धम् संपरिवृतः पूर्वानुपूर्वि चरन् ग्रामानुग्राम द्रवन् यत्रैव श्रावस्ती नगरी यत्रैव कोष्ठकं चैत्यं तत्रैवोपागच्छति, उपागत्य यथापतिरूपम् अवग्रहम् अवगृह्णाति, अवगृह्य संयमेन तपसा अत्मानं भावयन् बिहरति । ततखलु श्रमणो भगवान् महावीरः अन्यदा कदाचित् पूर्वानुपूर्वी चरन्यावत् सुख मुखेन विहरन् यत्रैव चम्पानगरी, यत्रैव पूर्णभद्रं चैत्यम् तत्रैवोपागच्छति, उपागत्य यथामतिरूपम् अवग्रहम् अवगृह्णाति, अवगृह्य संयमेन तपसा आत्मानं भावयन् विहरति । ततःखलु तस्य जमालेः अनगारस्य तैः अरसैश्च, विरसैश्च, अन्तैश्च, मान्तैश्च, रूक्षैश्व, तुच्छैश्च, काळातिक्रान्तेश्व, प्रामोगातिकान्तैश्च, शीतैश्च पानभोजनः अन्यदा कदाचित् शरीरके विपुलो रोगातङ्कः प्रादुर्भूतः, उज्ज्वलो विपुलः प्रगाढः, कर्कशः, कटुकः, चण्डः, दुःखः, दुर्गः, दुरधिसह्यः । पित्तज्वरपरिगतशरीरः, दाहव्युत्क्रान्तिकश्चापि विहरति, ततःखलु स जमालि रनगारो बेदनया अभिभूतः सन् श्रमणान् निर्ग्रन्थान् शब्दयति, शब्दयित्वा एवमवादीत्-यूयं खलु देवानुप्रियाः ! मम शय्यासंस्तारकं संस्तृणीत ? । ततःखलु ते श्रमणाः निर्ग्रन्थाः जमालेः अनगारस्य एतमर्थ विनयेन प्रतिशृण्वन्ति, प्रतिश्रुत्य जमालेः अनगारस्य शय्यासंस्तारकं संस्तुणन्ति । ततःखलु स जमालि
શ્રી ભગવતી સૂત્ર : ૮