________________
७७६
स्थानाङ्गसूत्रे
पञ्चाशत् योजनानि विष्कम्भेण, द्वासप्तर्ति योजनानि ऊर्ध्वमुच्चत्वेन तेषां सिद्धायतनानां चतुर्दिशि चत्वारि द्वाराणि प्रज्ञप्तानि तथथा - देवद्वारम् १, असुरद्वारं २ नागद्वारं ३, सुवर्णद्वारम् ४। तेषु खलु द्वारेषु चतुर्विधा देवाः परिवसन्ति, तद्यथा - देवाः १, असुराः २, नागाः ३, सुवर्णाः ४ । तेषां खलु द्वाराणां पुरतः चत्वारो मुखमण्डपाः प्रज्ञप्ताः । तेषां खलु मुखमण्डपानां पुरतः चत्वारः प्रेक्षागृ हमण्डपाः प्रज्ञप्ताः । तेषां खलु प्रेक्षागृहमण्डपानां बहुमध्येदेखभागे चत्वारो वज्रमया अक्षवाटकाः प्रज्ञप्ताः । तेषां खलु वज्रमयानामक्षवाटकानां बहुमध्यदेशभागे चतस्रो मणिपीठिकाः प्रज्ञप्ताः । तासां खल मणिपीठिकानामुपरि चत्वारि सिंहासनानि प्रज्ञप्तानि । तेषां खलु सिंहासनानामुपरि चत्वारि विजयदुष्याणि प्रज्ञप्तानि । तेषां खलु विजयदुष्यकाणां बहुमध्यदेशभागे चत्वारो वज्रमया अङ्कुशाः मज्ञप्ताः । तेषां खलु वज्रमयेषु अङ्कुशेषु चत्वारि कुम्भिकानि मुक्तादामानि प्रज्ञप्तानि तानि खलु कुम्भिकानि मुक्तादामानि प्रत्येकं प्रत्येकमन्यैस्तदद्वौच्चत्वममाण मात्रैश्चतुर्भिरर्द्धकुम्मिकैर्मुक्तादामभिः सर्वतः समन्तात् संपरिक्षिप्तानि । तेषां खलु प्रेक्षागृह मण्डपानां पुरतचतस्रो मणिपीठिकाः प्रज्ञप्ताः । तेषां खलु मणिपीठिकानामुपरि चत्वारथस्वार चैत्यस्तूपाः प्रज्ञप्ताः । तेषां खलु चैत्यस्तूपानां प्रत्येकं २ चतुर्दिशि चतस्रो मणिपिठिकाः प्रज्ञप्ताः । तासां खलु मणिपीठिकानामुपरि चतस्रो जिनप्रतिमाः सर्वरत्नमय्यः संपल्यङ्कनिषण्णाः स्तूपाभिमुख्यस्तिष्ठन्ति, तद्यथा ऋषभा १, बर्द्धमाना २ चन्द्रानना ३, वारिसेना ४, तेषां खलु चैत्यस्तूपानां पुरतचतस्रो मणिपाठिकाः प्रज्ञप्ताः । तासां खलु मणिपीठिकानामुपरि चत्वारत्यक्षाः प्रज्ञताः । तेषां खलु चैत्यवृक्षाणां पुरतचतस्रो मणिपीठिका: प्रज्ञप्ताः । तासां खलु मणिपीठिकानामुपरि चत्वारो महेन्द्रध्वजाः प्रज्ञप्ताः । तेषां खलु महेन्द्रध्वजानां पुरतचतस्रो नन्दाः पुष्करिण्यः प्रज्ञप्ताः । तासां खलु पुण्करिणीनां प्रत्येकं चतुर्दिशि चत्वारो वनखण्डाः प्रज्ञप्ताः, तद्यथा - पौरस्त्ये १, दाक्षिणात्ये २, पाश्चात्ये ३, उत्तरे
1
पूर्वेण - अशोकवनं, दक्षिणतो भवति सप्तपर्णवनम् ।
अपरेण चम्पकवनं, चूतवनमुत्तरे पार्श्वे || १ || इति ॥ सू० ६७ ।।
इस प्रकार मनुष्य क्षेत्रगत वस्तुओं में चतुःस्थानकता कहकर अब सूत्रकार क्षेत्र साधर्म्य को लेकर आठवें नन्दीश्वर दीपके वस्तुओंकी આ રીતે મનુષ્ય ક્ષેત્રગત વસ્તુઓમાં ચતુઃસ્થાનકતાનું કથન કરીને હવે સૂત્રકાર ક્ષેત્રસાધર્માંની અપેક્ષાએ આઠમાં નંદીશ્વર દ્વીપની વસ્તુઓનું ચતુઃ
શ્રી સ્થાનાંગ સૂત્ર : ૦૨