SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् महाभूतम् 'इच्वेते पंच महन्भूया' इत्येतानि पश्च महाभूतानि, नैतानि कुतोऽपि जायन्ते-किन्तु-यथा वक्ष्यमाणस्वरूपाणि भवन्ति कि स्वरूपाणि तानि ? इत्याह -'अणिम्मिया' इत्यादि । 'अणिम्निया' अनिर्मितानि-न केनापि कालेश्वरादिना रचितानि, 'अणिम्माविया' अनि पितानि-न पर द्वारा निष्पादितानि, 'अकडा' अकृतानि अभ्रेन्द्रधनुरादिवद् विस्र सापरिणामेन निष्पन्नत्वात् न केनाऽपि तानि कृतानि अत एव अकृतानि, 'गो कित्तिमा' नो कृत्रिमाणि न घटवत्कर्ट करणव्यापारसाध्यानि अत एव कृत्रिमतारहितानि, नो कडगा' नो कृतकानि स्वभावनिष्पत्तौ अपेक्षितपरव्यापारो भावः कृतक उच्यते, तानि पञ्च महाभूतानि च वित्रसापरिणामेन निष्पन्नत्वात् न कृतक व्यपदेश्यानि अत एव तानि नो कृत कानि, 'अणाइया' अनादिकानि आदिरहितानि शाश्वतभाववत्वात् 'आणि हणा' अनिधानानि-निधनरहितानि अन्तरहितानीत्यर्थः कदाचिदपि काले विनाशा. भावात्, 'अवंझा' अबन्ध्यानि आश्यकार्यकर्तृत्वात्, 'अपुरोहिया' अपुरोहितानि कार्यप्रवत्तकपुरोहिताभावात् 'सतंता' स्वतन्त्राणि-अपरनिरपेक्षकार्यकर्तृवात् 'सासया' शाश्वतानि-शाश्वतकालस्थायित्वात्, तदेवं भूनानि पश्चमहाभूतानि सन्तीति । इदं भृतवादिमतं प्रदर्शितम्, ___ सम्प्रति सांख्यमतमाह-'हुगे पुण' एके केचन सांख्यकाराः पुनः 'एवमाहु' एवं कथयन्नि-'आयछट्ठा' आत्मषष्ठानि, एतानि पूर्वोक्तानि पञ्चमहाभूतानि, पश्चैव न किन्तु आस्मषष्ठानि आत्मा षष्ठो येषु तानि आत्मषष्ठानि, एतेषु पञ्च महाभूनेषु तद्व्यतिरिक्तः षष्ठ आत्मा विधते, एवं केचन कथयन्ति-सांख्यानां हैं। ये महाभूत किसी से उत्पन्न नहीं होते, किन्तु अनिर्मित हैं, अनि. ििपत हैं अर्थात् किसी के द्वारा बनवाए हुए नहीं हैं, अकृत हैं, कृत्रिम नहीं है, अनादि हैं, अनन्त (विनाश रहित) हैं, अपुरोहित हैं अर्थात् इनको कोई प्रेरित करने वाला नहीं है स्वतंत्र हैं, शाश्वत हैं। अपना अपना कार्य करने में समर्थ हैं। कोई कोई पांच महाभूतों से भिन्न छठा आत्मतत्व भी स्वीकार આ મહાભૂતે કોઈનાથી ઉત્પન્ન થતા નથી. પરંતુ અનિર્મિત બન્યા નથી. અનિર્માપિત છે. અર્થાત્ કંઈનાથી બનાવેલ નથી અમૃત છે. કૃત્રિમ નથી. અનાદિ છે. અનંત વિનાશ રહિત) છે. અપુરોહિત છે, અર્થાત તેને કઈ પ્રેરણા કરવા વાળા નથી. સ્વતંત્ર છે. શાશ્વત છે. પિત પિતાનું કાર્ય કરવામાં समर्थ छ. કઈ કઈ પાંચ મહાભૂત સિવાય છ આત્મતત્વને પણ સ્વીકાર શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy