SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ समयायोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम् ३९५ जहा उरपरिसप्पाणं नाणतं, ते जीवा डहरा समाणा माउगात्त सिणेहमाहाति आणुपुठवेणं वुड्डा वणस्तइकायं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं खचरपंचिंदियतिरिक्खजोणियाणं चम्मपक्खीणं जाव मक्खायं ॥सू० १५।५७॥ ___ छाया-अथाऽपरं पुराख्यातं नानाविधानां जलचराणां पञ्चेन्द्रियतिर्यग्यो निकानाम्, तद्यथा मत्स्यानां यावत् शिंशुमारागाम्, तेषां च खलु यथाबीजेन यथाऽवकाशेन स्निगः पुरुषस्य च कर्मकृतस्तथैव यावत तत एकदेशेन ओजमाहारयन्ति । आनुपूर्या वृद्धाः परिपाकमनुमाप्ताः ततः कायादभिनिवर्तमानाः अण्डमेके जनयन्ति पोतमेके जनयन्ति, तस्मिन् अण्डे उद्भिद्यमाने स्त्रियमेके जनयन्ति पुरुषमेके जनयन्ति, नपुंसकमे के जनयन्ति । ते जीवा दहराः सन्तः अपां स्नेहमाहारयन्ति आनुपूर्व्या वृद्धाः वनस्पतिकायं त्रसस्थावरांश्च प्राणान् ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तेषां नानाविधानां जलचरपञ्चेन्द्रियतिर्यग्योनिकानां मत्स्यानां शिंशुमाराणां शरीराणि नानावर्णानि यावदाख्यातानि । अथाऽपरं पुराख्यातं नानाविधानां चतुरुपरस्थलचरपश्चेन्द्रियतिर्यग्योनिकानां, तद्यथा-एकखुराणां द्विखुराणां गण्डीपदानां सगखपदानां, तेषां च खलु यथा बीजेन यथावकाशेन स्त्रियाः पुरुषस्य च कर्मकृतो यावन्मैथुनप्रत्ययिको नाम संयोगः समुत्पद्यते, ते द्वयोरपि स्नेहं संचिन्वन्ति, तत्र खलु जीवाः स्वीतया पुरुषतया यावद् विवर्तन्ते, ते जीवाः मातुरातवं पितुः शुक्रमेयं यथा मनुष्याणा स्त्रियमप्ये के जनय. न्ति पुरुषमपि नपुंसकमपि । तें जीवा दहराः सन्तः मातुः क्षीरं सपिराहारयन्ति । आनुपूर्व्या वृद्धाः वनस्पतिकायं त्रसस्थावरांश्च प्राणान् ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तेषां नानाविधानां चतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकानाम् एकखुराणां यावत् सनखपदानां शरीराणि नानावर्णानि यावदाख्यातानि। अथाऽपरं पुराख्यातं नानाविधानामुरःपरिसर्प स्थलचरपश्चेन्द्रियतिर्यग्योनिकानाम्, तद्यथा-अहीनामजगराणामाशालिकानां महोरगाणाम् । तेषां च खलु यथा वीजेन यथाऽवकाशेन खियाः पुरुषस्य यावद् अत्र खलु मैथुनमेव तच्चैवाज्ञप्तम् । श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy